पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३९४) भट्टिकाव्ये जयमङ्गलासमेते- [ चतुर्दश:- वान् । निष्पूर्वो वपिर्दाने वर्तते । तत्र धातोर्यजादित्वात् सम्प्रसारणं न भवति अकित्त्वात् / अभ्यासस्य लिटि भवत्येव । तस्मिन्निहते शोकोऽग्निरिव रावणं बभ्रुज्ज दुग्धवान् | ८६ ॥ स बिभ्रेष प्रचुक्षोद दन्तैरोष्ठं चखाद च । प्रगोपायांचकाराशु यत्नेन परितः पुरम् ॥ ८७ ॥ स बिभ्रेषत्यादि-


स राजा विभ्रेष चलितः । ' भ्रूष चलने' स्वरितेत् ।

प्रचुक्षोद क्रोधाडोष्टादीन् चूर्णितवान् । ओष्ठ च दन्तैश्चखाद दृष्टवान् । पुरं लङ्कां समन्तात् यत्नेन प्रगोपायांचकार रक्षितवान् । 'गुपू रक्षणे' इत्युदात्तेत् । आयप्रत्ययान्तत्वादाम् ॥ ८७ ॥ अथ द्वाभ्यां युग्मकम् । महस्तमर्थयाञ्चके योद्धमतविक्रमम् । किं विचारेण राजेन्द्र ! युद्धार्था वयमित्यसौ ॥ ८८ ॥ प्रहस्तमित्यादि–अद्भुतविक्रमं प्रहस्तं रावणो योद्धुं 'युद्धथस्व' इत्य- यांच प्रार्थितवान् । 'अर्थ उपयाच्यायाम्' इति चौरादिक आत्म- नेपदी । वचनात् असौ प्रहस्तः प्रार्थितञ्चकाण बभाणेति वक्ष्यमाणेन सम्बन्धः । हे राजेन्द्र ! युद्धार्था वयं युद्धप्रयोजनाः ततश्च किं विचारेणेति ॥ ८८ ॥ d चक्काणाऽशङ्कितों योद्धुमुत्सेहे च महारथः । . निर्येमिरेऽस्य योद्धारश्चक्लृपे चाऽश्वकुञ्जरम् ॥ ८९ ॥ चक्काणेत्यादि-उक्त्वा च स महारथो योद्धा अशकतो निर्भयः सन् योद्धु- मुत्सेहे उत्साहं कृतवान् । अस्य योद्धारो रावणेन निर्येमिरे नियमिताः । अनेन सह एतावद्भिर्योद्धव्यामिति । कर्मणि लिट् । अश्वकुंजरं चक्लपे सजी- कृतम् । पशुद्वन्द्वैकवद्भावः । 'कृपो रो लः |८|२|१८|' ॥ ८९ ॥ युयुजुः स्यन्दनान श्वैरीजुदैवान् पुरोहिताः । आनर्चुब्रह्मणान् सम्यगाशिषश्चाशशंसिरे ॥ ९० ॥ १ 'अश्वान् कुञ्जरांश्वेत्यर्थः । अश्वाश्च कुञ्जराश्चेत्येषां समाहार इति तत् । 'विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडव पूर्वापराघरोत्तराणाम् २ । ४ । १२ इति समाहारः ।