(४०० ) भट्टिकाव्ये जयमङ्गलासमेते- तुतुषुर्वानराः सर्वे नेशुश्चित्रा निशाचराः | जेरुराशा दशास्यस्य सैन्यं नीलं नुनाव च ॥ ११२ ॥ [ पञ्चदश: - तुतुष्टरित्यादि--वानराः सर्वे तुतुषुः तुष्टाः । निशाचरा नेशु: पला- यिताः । विचित्राः नानाप्रकाराः दशास्यस्य आशा मनोरथा जेरुः जीर्णाः । 'वा जॄभ्रमुत्रसाम् ।६ । ४ । १२४ ।' इत्येत्वम् । सैन्यं च कर्तृ नीलं नुनाव स्तौति स्म || ११२ ।। यदा न फेडः क्षणदाचराणां मनोरथा रामबलाभियोगे । लङ्कां तदा भेजुरुदीर्णदैन्या व्याचख्युरुच्चैश्च हतं महस्तम् ॥ ११३ ॥ - यदेत्यादि — क्षणदाचराणां रामबलाभियोगे मनोरथा वाञ्छितानि यदा न फेलु: न फलिताः, प्रहस्तस्य व्यापादितत्वात् । तदा लङ्कां भेजुः सेवितवन्तः । उददैन्याः उदीर्ण महदैन्यं दीनभावो येषामिति । प्रहस्तं च हतं मृतमुच्चैराचख्युः आख्यातवन्तः । रावणायेत्यर्थात् ॥ ११३ || इति श्रीजयमङ्गलसूरिविरचितया जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्रीभट्टिप्रणीते रामचरिते काव्ये चतुर्थे तिङन्त- काण्डे लक्षणरूपे प्रथमः परिच्छेदः, लक्ष्य रूपे कथानके 'शरबन्धो’ नाम चर्तुदशः सर्गश्च | पञ्चदशः सर्गः-- इतः प्रभृति लुङमधिकृत्य तद्विलसितमाह । तत्र भूतसामान्ये लुङ् | ततोऽन्यत्रापि दर्शयिष्यति-- राक्षसेन्द्रस्ततोऽभैषीदैक्षिष्ट परितः पुरम् । प्रातिष्ठिपञ्च बोधार्थं कुम्भकर्णस्य राक्षसान् ॥ १ ॥ राक्षसेत्यादि- - ततः प्रहस्तवधश्रवणानन्तरं 'ईदृशोऽपि व्यापादितः' इति अभैषीत् । 'सिचि वृद्धिः परस्मैपदेषु ७७२।१२।' इति वृद्धिं परितः समन्तात् पुरं लङ्कामैक्षिष्ट दृष्टवान् । 'किमत्र शक्यते स्थातुं न वा' इति सुप्तस्य बोधार्थ राक्षसान् प्रातिष्ठिपत् प्रस्थापितवान् णावुपधाह्रस्वस्थापवादः।‘तिष्ठतेरित् । ७ । ४।५ ।' इतीत्वम् । द्विवचनमभ्यास- 'कार्यम् । षत्वं ष्टुत्वं च ॥ १ ॥ । कुम्भकर्णस्य । तिष्ठतेश्चपरे १ प्रवृद्धमित्यर्थः । २ अत्रोपजातिश्छन्दः | ३ इदमारभ्येत्यर्थकमव्ययम् |
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४३८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति