( ४०२ ) भट्टिकाव्ये जयमङ्गलासमेते- [ पञ्चदशः - - स तानित्यादि — स कुम्भकर्णः तान् सर्वान् उपद्रवान् नाजीगणत् न गण- -यति स्मन वेदितवानित्यर्थः । गणे: स्वार्थिकण्यन्तस्यादन्तस्याभ्यासस्य ई च गणः । ७ । ४ । ९७ ।' इतीत्वम् । स्वयं चात्मन इच्छयाबुद्ध बुध्यते स्म । 'झलो झलि | ८ | २ | २६ ।। इति सिचो लोपः । निशाचरांचा- 'प्राक्षीत् पृष्टवान् । हलन्तलक्षणा वृद्धिः । 'ब्रश्चभ्रस्जसृजमृजयजराजभ्रा- जच्छशां षः । ८ । २ | ३६ |' इति षत्वम् । 'पढोः कःसि ||२४|१| कस्मान्मामबूबुधत यूयं प्रबोधितवन्तः । बुधेर्ण्यन्तस्य मध्यमपुरुषबहुवचने ‘णौ चयुपधाया ह्रस्वः । ७१४ । १ ।' इति स्वत्वम् । अभ्यासस्य 'दीर्घौ लघोः १७४९४ |' इति दीर्घत्वम् ॥ ५ ॥ तेऽभाषिषत राजा त्वां दिक्षुः क्षणदाचर । सोऽस्नासीद् व्यलिपन्मांसमप्सासीद्वारुणीमपात् ॥ ६ ॥ त इत्यादि — ते राक्षसास्तथोक्ताः सन्तः अभाषिषत भाषितवन्तः । हे 'क्षणदाचर ! राजा रावणस्त्वां दिदृक्षुः द्रष्टुमेषणशील इति । 'न लोकाव्य- यनिष्ठाखलर्थतृनाम् । २ । ३ । ६९ । इति पष्टीप्रतिषेधः । स कुम्भकर्णः श्रुत्वा अस्नासीत् स्नातवान् । 'यमरमनमातां सक् च |७|२|७३ | इति सगिटौ । व्यलिपत् समालिप्तवान् । 'लिपिसिचिह्नश्च |३|१|५३|| इत्यङ | मांसमसा- सीत् 'सा भक्षणे ।' वारुणीमपात पतिवान् । 'गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ।२।४।७७ |' इति सिचो लुक् ॥ ६ ॥ न्यवसिष्ट ततो द्रष्ट रावणं प्रावृतद् गृहादू | राजा यान्तं तमद्राक्षीदुदस्थाच्चेषदासनात् ॥ ७ ॥ न्यवसिष्टेत्यादि -- ततो रावणं द्रष्टुं न्यवसिष्ट पूर्वनिवसितं वसनं त्यक्त्वा अन्यद्वस्त्रं परिद्धाति स्म।गृहात् स्वस्मात्प्रावृतत् प्रवृत्तः । 'युद्भयो लुङि | १|३|९१ | इति परस्मैपदम् । 'पुषादिद्युतादतः परस्मैपदेषु । ३ । १ । ५५ ।' इति अडू । तमायान्तं राजाद्राक्षीत् दृष्टवान् । ' सृजिदृशोर्झल्यमकिति |६|१|५८ ' इत्यम् । हलन्तलक्षणा वृद्धिः । आसनाच्च ईषदुदस्थात् उत्थितः ऊर्ध्वकर्मकत्वा- दात्मनेपदं न भवति ॥ ७ ॥ अनुषत् पीठमासन्ने निरदिक्षच्च काञ्चनम् | अस्मेष्ट कुम्भकर्णोऽल्पमुपाविदथान्तिके |॥ ८ ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४४०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति