सर्ग: ] तिङ्काण्डम् । (४०९ ) - अस्पन्दिष्टेत्यादि - वामं चास्याक्षि अस्पन्दिष्ट स्पन्दते स्म । घोराः अनिष्टशंसिन्यः शिवाः अराटिषू रटन्ति स्म । 'अतो हलादेलेघोः । ७ । २॥ ७।' इति वृद्धिविकल्पः | गृध्रा मुसले न्यपतन् उपविष्टवन्तः । 'पुषादि- द्युतालदितः परस्मैपदेषु । ३ । १ । ५५ ।' इति लदित्त्वादङ् । 'पतः पुम् १७१४|१९|' इति पुमागमञ्च | दीप्तया उल्कया अपाति पतितम् । भावे चिणादेशः ॥ २७ ॥ आंहिष्ट तानसम्मान्य दर्षात् स प्रधनक्षितिम् । ततोऽनदींदनन्दीच शत्रूनाहास्त चाहवें ॥ २८ ॥ आंहिष्टेत्यादि – तान् उत्पातान् कम्भकर्णोऽसमान्य दर्पादवज्ञाय प्रध- नक्षितिं युद्धभूमिमांहिष्ट गतवान् । तत उत्तरकालं अनर्दीत् गर्जितवान् "क्क यास्यथेदानीम्' इति । अनन्दीच्च जयश्रियं लाघितवानित्यर्थः । आवे संग्रामे शत्रूनाह्वास्त आहूतवान् । 'आगच्छत, युध्यध्वम्' इति । स्पर्धायामाङः । ३ । ३ | ३१ |' इति तङ् | 'आत्मनेपदेष्वन्यतरस्याम् । ३ । १ । ५४ ।' इत्यङभावपक्षे रूपम् ॥ २८ ॥ प्राशीन्न चातृपत क्रूरः क्षुच्चास्यावृधदश्नतः । अधाद् वसामधासीच्च रुधिरं वनवासिनाम् ॥ २९ ॥ प्राशीदित्यादि — प्राशीत् भक्षितवान् । वनवासिन इत्यर्थात् । न चासो क्रूरः दुष्टचेता अतृपत् तृप्तवान् । पुषादित्वादङ् । अनतोऽप्यस्य खादतोऽपि कुम्भकर्णस्य क्षुत् बुभुक्षा अवृधत् वर्धते स्म । 'वृधु वृद्धी' द्युतादिः । वनवासिनां वानराणां वसामधात् पीतवान् । 'विभाषा ब्राधेशाच्छासः |२|४|७८ |' इति सिचो लुकूपक्षे रूपम् । रुधिरं चाधासीत् । 'धेट् पाने' 'विभाषा धेट्- श्व्योः । ३ । १ । ४९ ।' इति चङभावपक्षे रूपम् ॥ २९ ॥ मांसेनास्वाश्वतां कुक्षी जठरं चाप्यशिश्वियत् । बहूनामग्लुचत् प्राणानग्लोचीच्च रणे यशः ॥ ३० ॥ १ 'युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् । इत्यमरः । २ 'अभ्यामर्दुसमाघात- सङ्ग्रामाभ्यागमाहवाः ॥' इत्यमरः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४४७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति