सर्गः ] तिङकाण्डम् | (४१३ ) घ्नन्तं मोपेक्षिषायां च मान कार्ष्टमिहादरम् । अमुं मा न वधिष्टेति रामोऽवादीत्ततः कपीन् ॥ ४१ ॥ घ्नन्तमित्यादि-तस्मात् घ्नन्तमेनं युवां मोपेक्षिषाथां मोपेक्षकौ भूतमित्यर्थः । इह च कुम्भकर्णे आदरं मा न काट॑म्, अपि तु कुरुतम् । ततो विभीषणवच- नानन्तरं रामः कपीनवादत् िउक्तवान् । अमुं कुम्भकर्ण मा न वधिष्ट इति, किन्तु हतेति ।" लुङि च |२|४|४२' इति हनो वधादेशः ॥ ४१ ॥ ते व्यरासिपुराइन्त राक्षसं चाप्यपिप्लवन् । अबभासन् स्वकाः शक्तीमशैलं व्यकारिषुः ॥ ४२ ॥ त इत्यादि — ते वानराः हर्षाद् व्यरासिषुः किलकिलाशब्दं कृतवन्तः ।, ‘अतो हलादेर्लेघोः |७|२|७|' इति वृद्धिः | राक्षसं च कुम्भकर्णमाह्नन्त स्पर्ध माना आहूतवन्तः ।'आत्मनेपदेष्वन्यतरस्याम् |३|१|५४|| इति द्वेञः पक्षे अङ् । अपिप्लवन् प्लावितवन्तः । अपिः शब्दार्थे । तथा कृतवन्तः यथासौ प्लुतं कर्तुमारब्धः । प्लवतेर्ण्यन्तस्य चङि सन्वत्कार्यामिति । 'स्रवतिशृणोतिद्रव- तिप्रवतिप्लवीतच्यवतीनां वा |७|४|४८१|' इत्यभ्यासस्येत्वम् | स्वका आत्मयाः शक्तीरबभासन प्रकाशयान्त स्म । भासेर्ण्यन्तस्य चाङ: 'भ्राजभास.. आषदीपजीवमील पीडामन्यतरस्याम् । ७ । ४ । ३ ।। इति उपधाहस्वविकल्पः ॥ द्रुमाश्च शैलाश्चेति द्रुमशैलम् । 'जातिरप्राणिनाम् । २।४।६। इत्येकवद्भावः । व्यकारिषुः तदुपरि क्षिप्तवन्तः । 'कॄ विक्षेपे' लुङ् ॥ ४२ ॥ ते तं व्याशिषताक्षौत्सुः पादैर्दन्तैस्तथाच्छिन् । आर्जिजच्छरभो वृक्षं नीलस्त्वादित पर्वतम् ॥ ४३ ॥ ते तमित्यादि–ते वानरास्तं राक्षसं व्याशिषत व्याप्तवन्तः । 'अशू व्याप्तौ ।' पाश्चाक्षौत्सुः पिष्टवन्तः । 'क्षुदिर् सम्पेषणे ।' दन्तैरच्छिदन, छिन्दन्ति स्म । इरितो वा । ३ । १ । ५७ ।' इत्यङ् । शरभो नाम कपिवृक्षमार्जिजत् ग्रहीतुं यतते स्म । 'अर्ज प्रतियत्ने' इति स्वार्थिकण्यन्ताच्चाङ । 'द्विर्वचनेऽचि । १ । १ । ५९ ।। इति स्थानिवद्भावात् 'अजादेर्द्वितीयस्य | ६|१|२|| इति द्विर्वचनम् । रेफस्य' न न्द्राः संयोगादयः ||६||१||३|' इति द्वित्वप्रतिषेधः । नील; पर्वतमादित गृहीतवान् ।' स्थाघ्वोरिच्च ||१|२|१७७’ ॥ ४३ ॥ १ 'निषेधार्थकद्वयं हि सातिशयं प्रकृतमर्थमवगमयति' इति 'मा न' इति प्रयुक्तम् ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४५१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति