(४१८) भट्टिकाव्ये जयमङ्गलासमेते- [ पञ्चदश:- इति नुम् । अयतिष्ट च यतते स्म । कुम्भकर्णेनात्मनोऽवस्थां दृष्ट्वा अक्रोधि क्रुद्धम् । भावे लुङ्। क्षितौ च पेष्टुं चूर्णयितुं सुग्रीव आरम्भि आरब्धः । कर्मणि लुङ् । ‘रभेरशब्लिटोः |७||१||६३|| इति नुम् ।। ५८ ।। 'सुग्रीवोऽस्याभ्रशद्धस्तात्समगाहिष्ट चाम्बरम् । तूर्णमन्वसृपद्राममाननन्दच्च वानरान् ॥ ५९ ॥ सुग्रीव इत्यादि- - अस्य कुम्भकर्णस्य हस्तात् सुग्रीवः अभ्रशत् भ्रष्टः । 'भ्रशु अंशु अधःपतने' पुपादिः । स चाम्बरमाकाशमगाहिष्ट आक्रान्तवान् । 'गहू विलोडने ' अनुदात्तत् । तूर्णं च राममन्वसृपत् अनुगतः । लादत्त्वादङ् । वानरांश्च कर्णनासिक कर्तनेनाननन्दत् तोषितवान् | नन्दतेर्ण्य - न्तस्य रूपम् ॥ ५९॥ अतत्वरच्च तान्योद्धुमचिचेष्टच्च राघवौ । कुम्भकर्णी न्यदति॑िष्ट रणेऽयुत्सन्त वानराः ॥ ६० ॥ अतरवरदित्यादि- तांश्च वानरान् योद्धमतत्वरत् त्वरयति स्म । 'मा ‘विलम्बध्वम्' इति । त्वरेर्ण्यन्ताच्च । 'अत् स्मृदृत्वरप्रथादस्तृस्पशाम् |७|४|९५११ इति अभ्यासस्य अत्त्वम् । राघवौ च रामलक्ष्मणौ योद्धुमच चेष्टत् व्यापारयति स्म 'विभाषा वोष्टिचेष्टयोः |७|४|९६|' इत्यभ्यासस्यात्वपक्षे रूपम् । स कुम्भकर्णो योद्धुं न्यवर्तिष्ट निवृत्तः । वृतिर्वृतादिः । 'बुद्धयो लुङि |१||३|९१ | ' इत्यात्मनेपदे नाँङ् । वानराश्चायुत्सन्त युध्यन्ते स्म ।। ६० ।। अविवेष्टन्नृपादेशादारुक्षंश्चाशु राक्षसम् । तानधावीत्समारूढांस्तेऽप्यस्त्रंसिषताकुलाः ॥ ६१ ॥ अविवेष्टन्नित्यादि – वानरा राक्षसमविवेष्टन् बेष्टयन्ति स्म । नृपादेशादाशु - राक्षसमारुक्षन् आरूढाः । रुहः 'शल इगुपधादनिटः क्सः | ३|१|४५|' इति क्सः । तांश्च वानरानारूढान् कुम्भकर्णोऽयावीत् धूतवान् । 'स्वरतिसूति- •सूयतिधूदितो वा |७|२|४४ |' इतीट् | 'सिचिवृद्धिः परस्मैपदेषु । ७ । २ । १।' इति वृद्धिः । ते व्याकुलाः सन्तोऽस्रंसिषत स्रस्ताः पतिता इत्यर्थः । 'स्रंसु ध्वंसु सु अवस्रंसने तादिः । परस्मैपदाभावान्ना ॥ ६१ ॥ १ ‘‘योम पुष्करमम्बरम्' इत्यमरः | २ 'पुत्रादितादितः परस्मैपदेषु ।३।१॥ ५५' इति शास्त्र हि परस्मैपद एव प्रवर्तते ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४५६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति