पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । (४५३) पीडाकरमित्यादि----इयमपराद्धा भवतु न वा सर्वथा यदमित्राणां पीडा- करं तदुवश्यं कर्तव्यमिति शऋजिदब्रवीत् उक्तवान् । खड्गकृष्टश्च कृष्टः खड्गो येन। ‘प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' । तस्या मूर्धानमच्छिनत् छिन्नवान् । तिपो हङ्यादिलोपः । दकारस्य चर्त्वम् ॥ २२ ॥ यत्कृतेऽरीन्व्यगृह्णीम समुद्रमतराम च । सा हतेति बदनाममुपातिष्ठन्मरुत्सुतः ॥ २३ ॥ यत्कृत इत्यादि-यस्याः कृते यन्निमित्तम् अरीन् परान् अशोकवनि- कांस्थितान् व्यगृह्णीम विगृहीतवन्तः । 'नित्यं ङितः | ३|४|१९९१ इति लङि उत्तमस्य लोपः । समुद्रं चातराम तीर्णवन्तः । 'अतो दीर्घौ यनि ।७।३।१०१।' इति दर्घिः । सा सीता हतेति वदन्मरुत्सुतः राममुपातिष्ठत् ढौकितवान् । अत्र यमुना गङ्गामुपतिष्ठत इत्येवं सङ्गतिकरणम् [ उप- श्लेषो ] नास्तीति 'उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम्' इति तङ् न भवति ॥ २३ ॥ ततः प्रामुह्यतां वीरौ राघवावरुतां तथा । उष्णं च प्राणितां दीर्घमुच्चैर्व्याक्रोशतां तथा ॥ २४ ॥ 1 वत इत्यादि- ततो हनुमद्वचनानन्तरं राघवौ वीरौ प्रामुह्यतां प्रकर्पेण मोहं गतौ । तथाऽरुतां ऋन्दितवन्तौ । 'रु शब्दे ।' 'उतो वृद्धिलुकि हाल ।७ । ३ । ८९ ।। इति न भवति । पित्त्वाभावात् । तथा दीर्घ- मुष्णं च प्राणितां निश्वसितवन्तौ 'अन प्राणने ।' 'रुदादिभ्यः सार्वधा- तुके |७|२|७६ |' इतीट् । तथा उच्चैर्व्याक्रोशतां ' हा सीते' इति आहूत- वन्तौ ॥ २४ ॥ तावभाषत पौलस्त्यो मा स्म प्ररुदितं युवाम् । ध्रुवं स मोहयित्वास्मान्पापोऽगच्छन्निकुम्भिलाम् ॥ २५ ॥ ताबित्यादि-पौलस्त्यो विभीषण आगत्य wal तथाभूतावभाषत उक्तवान् । युव मारम प्ररुदितं मा रोदिष्टम् । 'स्मोत्तरे लङ् च |३|३|१७६ | इति लङ् । यतो ध्रुवमवश्यं स इन्द्रजित् पापः पाप्मा । अर्शआदित्वादच । अस्मान् मोहयित्वा मायया विमोह्य । मुहेरकर्मकत्वाद् 'गतिबुद्धिप्रत्यव १ शत्रूणाम् । २ मस्तकम् ।