पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४५६ ) [ सप्तदश:- इहाजीव इहैव त्वं क्रूरमारभथाः कथम् । नापश्यः पाणिमा त्वं बन्धुत्वं नाप्यपैक्षथाः ॥ ३३ ॥ इहेत्यादि----इहाजीवः जीवितोऽसि कथमिहैव त्वं क्रूरं कर्म आर- मथा: आरब्धवानसि । आर्द्र पाणिं च नापश्यस्त्वं न दृष्टवानसि । यावता कालेन भुक्त्वा पाणि: शुष्यति तावन्तमपि कालं नापेक्षितवा- नसीत्यर्थः । आस्तां तावदेतत् । बन्धुत्वमपि एकगोत्रत्वमपि नापैक्षथाः ॥३३॥ अधर्मान्नात्रसः पाप लोकवादान्न चाबिभेः । धर्मदूषण नूनं त्वं नाजाना नांशृणोरिदम् ॥ ३४ ॥ अधर्मादित्यादि----हे पापे ! अधर्मादपि नात्रसः न त्रस्तोऽसि । ‘त्रसी उद्वेगे' दिवादौ । ‘वा भ्राशभ्लाशभ्रमुक्रमुक्कमुत्रसित्रुटिलषः । ३ । ११.७० ।' इतिं पक्ष शप् | लोकवादात् जनापवादात् न चाबिभे: न भीतोऽसि । श्लौ द्विर्वचनम् । धातोर्गुण: । 'भीत्रार्थानां भयहेतुः । १ ।४ । २५|' इत्यपादानसंज्ञा । हे धर्मदूषण ! धर्मस्य दूषण धर्मोच्छेदक ! अति- विपरा॑ते॒ स्थितंत्वा॑त् । 'दुष वैकृत्ये' । 'दोषो जौ ||४|१०|' इत्युप- धाया ऊत्वम् । दूषयतीति दूषण: । 'कृत्यल्युटो बलम् | ३|३|११३ | ' कर्तरि ल्युट् । न तु नन्द्यादिपाठे ल्युः । तत्र हि 'नदिवाशिमदिदू- पिसाधिपचिशोधिरोचिभ्यो ण्यन्तेभ्य: पूजायाम्' इत्युक्तम् । न चात्र पूजा गम्यत इति । नूनम् अवश्यं त्वं नाजानाः स्वयमिदं न ज्ञातवानसि । 'ज्ञा अवबोधने ।' इत्यादावुदात्तत् । 'ज्ञाजनोजी । ७ । ३ । ७९ ।' 'इदमन्य- • ताऽपि नाशृणोः द्विषद्भयो न श्रुतवानसि । 'ध्रुवः च । ३ । १ । १७४ १ इति ट, इत्यादेशः, ततः नुः ॥ ३४ ॥ किं तदित्याह-- । भट्टिकाव्ये जयमङ्गलासमेते- -- निराकृत्य यथा बन्धुँलघुत्वं यात्यसंशयम् । पितृव्येण ततो वाक्यमभ्यधीयत शऋजित् ॥ ३५ ॥ निराकृत्येत्यादि---यथा बन्धून् निराकृत्य परित्यज्य लघुत्वम् लघुतां याव्यसंशयमसन्देहम् । ततः पुत्रोक्तेरनन्तरं पितृव्येण विभीषणेन शक्रजिद्वाक्यमभ्यधीयत अभिहितः । कर्मणि लङ् । 'घुमास्थागापाजहातिसां हलि । ६ । ४ । ६६ ।। इतीत्वम् ॥ ३५ ॥ १ अत्र 'अर्शआदिभ्योऽच् ५ | २ | १२७' इत्यच् । २ धर्म दूषयतीति व्युत्पत्तिभ्रमनिरासार्थमेदं पृथङ् निर्दिष्टं, नहात्र नन्द्यादित्वाल्ल्युः, तन्नास्याग्रहणात् ।