सर्गः ] तिकाण्डम् । (४९३) इत्यनवक्लृप्तौ भविष्यति लिङ । यच्चेति निपातसमुदायो यच्छन्दस्या वर्तते । किंच यत्र देशे काले वा यच्च भवान् सीदेत् अवसादं करोतीति महद्भिः पण्डितैः विगर्हितं निन्दितम् । 'गर्हायां च | ३|३|१४९' इति सव- लकाराणामपवादो लिङ् । 'यच्चयत्रयोः' इत्यनुवर्तते । अनवक्लृप्ताविति निवृत्तम् ॥ १८ ॥ आश्चर्यं यच्च यत्र त्वां प्रब्रूयाम वयं हितम् । आप साक्षात् प्रशिष्यास्त्वं कृच्छ्रेष्विन्द्रपुरोहितम् ॥ १९ ॥ आश्चर्यमित्यादि – यत्र देशे काले वा यच्च यद्वयमपि त्वां हितं प्रब्रू- याम तदाश्चर्य विचित्रमतेत् । 'चित्रीकरणे च । ३ । ३ । १५० । इति लिङ् । 'यच्चयत्रयोः । ३ । ३ । १४८ ।' इति वर्तते । त्वामित्य कथितं कर्म । अतस्त्वं कृच्छ्रेषु व्यसनेषु साक्षादिन्द्रपुरोहितं बृहस्पतिं प्रशिष्याः बाढं शिक्षयसि । 'उताप्योः समर्थयोर्लिङ् । ३ । ३ । १५२ ।। अपिशब्द- स्योपपदत्वात् समर्थत्वं चानयोर्बाढमित्येतस्मिन् अर्थे । ‘शास इदक्- हलोः । ६ । ४ । ३४ ।' 'शासिवसिघसीनां च । ८ । ३ । ६० ।' इति षत्वम् ॥ १९ ॥ कामो जनस्य जह्यास्त्वं प्रमादं नर्ऋताऽधिप । उत द्विषोऽनुशोचेयुर्विप्लवे किमु बान्धवाः ॥ २० ॥ काम इत्यादि —हे नैर्ऋताघिप रक्षसां नाथ ! त्वं प्रमादं जह्याः त्यज | अस्य जनस्य पौरस्य काम इच्छा । ' कामप्रवेदनेऽकच्चिति | ३ | ३ | १५३ ।' इति लिङ् । कच्चिच्छब्दस्याप्रयोगात् । कामप्रवेदने च जनाभि- प्रायप्रकाशनम् । अन्यच्च अस्मिन् विप्लवे विनाशे द्विषः शत्रवोऽपि उत अनुशोचेयुः अनुशोचान्त किमु बान्धवाः ‘ उताप्योः समर्थयोर्लिंङ् । ३ । ३ । १५२ ।। ।। २० ।। स भवान् भ्रातृवद्रक्षेद्यथावदखिलं जनम् । न भवान् सम्प्रमुच्चेदाश्वस्युश्च निशाचराः ॥ २१ ॥ -- स इत्यादि - - चेद्यदि भवान्न सम्प्रमुह्येत् मोहं न गच्छेत् तदा स भवान् भ्रातृवत् यथा भ्रात्रा जनो रक्ष्यते तद्वत् अखिलं जनं यथावत् सम्यक् रक्षेत् । एते च निशाचरा आश्वस्युराश्वासं गच्छेयु: । 'हेतुहेतुम- तलिङ् | ३|३|१५६|' अत्र प्रमोहो हेतुः जनरक्षणं निशाचराश्वासनं च हेतुमत् । श्वसेरदादित्वाच्छपो लुक् । आश्वसेयुरिति पाठान्तरम् ॥२१॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५३१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति