पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् | तमसाया महानीलपाषाणसदृशत्विषः | वनान्तान्बहु मन्तासे नागराक्रीडसाक्षिणः ॥ १२ ॥ तमसाया इत्यादि ---तमसा एतन्नाम्न्याः नद्याश्च वनान्तान् वनोपक ण्ठान् महान् असौ नीलमणिः, स एव पाषाणस्तस्य सदृशी त्विट् कान्ति: अतिश्यामत्वात् येषां ते नगरे भवा इति नागराः तेषाम् आक्रांड: क्रीडा, तस्य साक्षिण: साक्षिभूतास्तान् । बहु अत्यन्तम् मन्तासे लाघितास ॥ १२ ॥४ नगरस्त्रीस्तनन्यस्तधौतकुङ्कुमपिञ्जराम् । विलोक्य सरयूं रम्यां गन्तायोध्या त्वया पुरी ॥ १३ ॥ नगरेत्यादि -- नगरवासिन्यः स्त्रिय इति नगरस्त्रियः अयोध्यावनिता तासां स्तनेषु यत् पूर्व न्यस्तं पश्चाद्धौतं कुङ्कुमं तेन पिञ्जरां कपिश वर्णाम् अत एव रम्यां रमणीयाम् सरयूं विलोक्य अयोध्या पुरी त्वया गन्ता गन्तव्या ॥ १३ ॥ आनन्दितारस्त्वां दृष्ट्वा प्रष्टारश्वावयोः शिवम् | मातरः सह मैथिल्या तोष्टा च भरतः परम् ॥ १४ ॥ आनन्दितार इत्यादि --- अयोध्यायां नगर्य्यां च त्वां दृष्ट्वा मातरः कौसल्या सुमित्राकैकैय्यः आनन्दितार: आनन्दिष्यन्ति । आवयोरामलक्ष्मणयोः सह मैथिल्या जनकनन्दिन्या सीतया शिवं कल्याणं प्रष्टारः : प्रश्नं करिष्यन्ति भरतश्च श्रुत्वा परम् अत्यर्थं तोष्टा प्रीतिं कर्ता । आमन्त्रितार इति पाठान्तरम् ॥ तत्रानित्यण्यन्ता इति दर्शनं तेषां णिज् न भवति। अन्यथा 'णेरनिटि६|४|१५१' इति णिचो लोपो न प्राप्नोति । ततश्च आमन्त्रयितार इति स्यात् । अथवा आ- मन्त्रणम् आमन्त्रः इति घञन्तात् आचारे 'सर्वप्रातिपदिकेभ्यःक्किव् वा वक्तव्यः इति क्विप् । तदन्तात्तासेरिट्' 'अतो लोपः |६|४|४८।' इत्यतो लोपे च रूपम् ॥ ‘सहमैथिल्योः’इति पाठान्तरम् । तत्रापि बहुन्नीही 'नघृतश्च । ५ ।४ । १५३। इति कपू न भवति समासान्तविधिरनित्य इति कृत्वा ॥ १४ ॥ आख्यातासि हतं शत्रुमभिषिक्तं विभीषणम् । सुग्रीवं चार्जितं मित्रं सर्वांश्चागामुकान् द्रुतम् ॥ १५ ॥