पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२ ) भट्टिकाव्ये जयमङ्गलासमेते- [द्वितीयः- सारणम् । 'नहिवृतिवृषिव्यधिरुचिसहितनिषु कौ | ६|३|११६ ।। इति दीर्घः । लक्ष्ये वध्ये समाधिं चित्तैकाग्रतां न दुधे न धारितवान् | जित्त्वात्तङ् । लिटः कित्त्वे आतो लोपः । उत्सुकानां हंसानां नादानाकर्णयन् शृण्वन् तत्रांभिरतचि तकत्वात् । वर्तमानकालो भूतेनाभिसम्बध्यमानः साधुः । ‘ धातुसम्बन्धे प्रत्ययाः ।३।४।१।' इति च । आकर्णयन्निति ' प्रातिपदिकाद्धात्वर्थे बहुलम् इति णिच् । ‘ लक्षणहेत्वोः क्रियायाः |३|२|१२६|' इति शतृप्रत्ययः ॥ ७ ॥ गिरनितम्बे मरुता विभिन्नं तोयाऽवशेषेण हिमाऽऽभमभ्रम् | सरिन्मुखांभ्युच्चयमादधानं शैलाधिपस्यानुचकार लक्ष्मीम् ॥ ८ ॥ गिरेरित्यादि—गिरेः कस्यचित् नितम्बे मध्यभागे स्थितमभ्रं कर्तृ, मरुता विभिन्नं विह्वलीकृतं तोयावशेषेण पयसोऽवशिष्टतया हिमाभं हिमसदृशं सरि न्मुखानां गिरिनदीनिर्गमाणामभ्युच्चयं वृद्धिम् आदधानं कुर्वाणं शैलाधिपस्य हिमवतः लक्ष्मीं शोभामनुचकार अनुकृतवत् ॥ ८ ॥ गर्जन हरिः साऽम्भसि शैलकुञ्जे प्रतिध्वनीनात्मकृतान् निशम्य ॥ क्रमं बबन्ध ऋमितुं सकोपः प्रतर्कयन्नन्यमृगेन्द्रनादान् ॥ ९ ॥ - 7 गर्जन्नित्यादि-हरिः सिंह गर्जन् शब्दं कुर्वन् । क शैलनिकुञ्जे गिरे- गहने । साम्भसि ससलिले । एवंविधे प्रदेशे प्रतिध्वनीन् प्रतिशब्दान् आत्मकृतान् निशम्य श्रुत्वासकोप: सरोषः क्रमं बबन्ध ऋमितुमुत्पतितुं यत् सामर्थ्य तच्चकारेत्यर्थः । अनेकार्थत्वाद्धातूनां बन्धिरत्र करणे वर्तते । किमिति प्रतर्कयन्नन्यमृगेन्द्रनादान् ॥ ९ ॥ इदानीं रामव्यापारेण वर्णयन्नाह - अदृक्षताम्भांसि नवोत्पलानि रुतानि चाऽश्रोषत षट्पदानाम् । आघ्रायि वान् गन्धवहः सुगन्धस्तेनाऽरविन्दव्यतिषङ्गवांश्च ॥ १० ॥ • अदृक्षतेत्यादि---नवान्युत्पलानि येष्वम्भस्सु जलेषु तानि रामेणाहक्षत दृष्टानि । दृशेः कर्मणि लुङ् | 'शल इगुपधानिटक्सः ||३||१२|१४५|| इति प्राप्तस्य क्सादेशस्य 'न दृशः | ३|१|४७॥ इति प्रतिषेधात् सिजेव भवति। लिसिचा- त्मनेपदेषु |१|२|११|' इति कित्त्वे गुणाभावः । षट्पदानां रुतानि अश्रोषत १ अत्र परिकरालङ्कारः | २ अत्रोपमाऽलङ्कारः | ३ 'हर्याक्षः केसरी हरिः' इत्यमरः । ४ अत्र स्वभावेक्तिरलङ्कारः ॥ ५ भ्रमराणामित्यर्थः 'षट्पदभ्रमरालयः |' इत्यमरः ।