सर्गः ] प्रकीर्णकाण्डम् | (२३) श्रुतानि । शृणोतेः कर्माणि लुङ् | वहतीति वहः पचाद्यच् । गन्धस्य वह इति कृद्योगे पठी समस्यते । गन्धवहो वायुराप्रायि आघ्रातः । कर्मणि लुङ् । अरविन्देन पद्मेन व्यतिषंग: संपर्क: सोऽस्ति यस्य वायोः सः । वातीति वान् वातेः शतृप्रत्ययः । सुगन्धः । शोभनो गन्धो यस्य सः । अरविन्दव्यः तिषङ्गत्वात् 'गन्धस्येदुत्पूतिसुसुरभिभ्यः ।।५।४।१३५ ।। इतीकार: समासान्तो न भवति । 'गन्धस्येत्त्वे तदेकान्तग्रहणम्' इति वचनात् सुगन्ध, आपणिक इति यथो ।। १० ।। लताऽनुपातं कुसुमान्यगृह्णात् स नद्यवस्कन्दनुपास्पृशच्च ॥ कुतूहलाच्चारु शिलोपवेशं काकुत्स्थ ईषत् स्मयमान आस्त ॥११॥ लतेत्यादि---'विशिपतिपदिस्कन्दां व्याप्यमानासव्यमानयोः |३|४|५६।१ इति द्वितीयान्त उपपदे णमुल्विधीयते । तत्र व्याप्यमाने द्रव्यवचनस्य आसेव्यमाने च क्रियावचनस्य 'नित्यवीप्सयोः |८|१|४|' इति द्विर्वचनं वियते । अत्र तु समासेनैवोक्तत्वात् नोपयुज्यत इति स्थितम् । स काकुत्स्थो रामो गच्छन् लतां लतामनुपात्य कुसुमान्यगृह्णात् गृहीतवान् । लतामनुपात्यानुपात्य च । 'तृतीयाप्रभृतीन्यन्यतरस्याम् |२|२|२१|| इति समासः । ग्रहेर्लङ् । आप्रत्ययस्य, अपिदिति ङित्त्वे 'ग्रहिज्यावायव्यधिवष्टि - विचतिवृञ्चतिपृच्छतिभृज्जतीनां ङितिच ६ | १२|१६' इति सम्प्रसारणम् । नद्यवस्कन्दमिति नदीं नदीम् अवस्कन्य सर्वो नदीमदस्कन्द्य ढौकित्वा नदी वा अवस्कन्द्यावम्कन्द्य, उपास्पृशत्, आचमनं कृतवान् । कुतूहलादिति सर्वत्र योज्यम्। चारुशिलोपवेशमिति चारुशिला चारुशिलाः उपविश्य चारुशिला उपविश्यापविश्य वा आस्त आसितवान् । आसेलेङि रूपम् | ईषत् स्मयमान:: ईषद्धसन् ॥ ११ ॥ तिग्मांशु रश्मिच्च्छुरितान्यदूरात् माञ्चि प्रभाते सलिलान्यपश्यत् । गभस्तिधारोभिरिव द्रुतानि तेजांसि भानोर्भुवि सम्भृतानि ॥१२॥ तिग्मांश्वित्यादि-- अदूरात्समीपे घमास्थाम्नादाणदृश्यर्तिसर्निशदसदां सलिलान्यपश्यत् । दृशेर्लोड 'पाना- पिवजिघ्रधम तिष्ठमनयच्छपश्यच्छघौशीय- सीदाः |७|३|७८।' इति पश्यादेशः । तिग्मांशोरादित्यस्य रश्मिभिः छुरितानि रञ्जितानि । तुक् । प्राचि पूर्वस्यां दिशि अवस्थितानि । प्रपूर्वाद चतेः 'ऋत्वि- १ अत्रोत्प्रेक्षा ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/६१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति