पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५४) भट्टिकाव्ये जयमङ्गलासमेते- [ तृतीयः- ता इत्यादि – बन्धुता बन्धुसमूहः । 'ग्रामजनबन्धुभ्यस्त । ४ । २ । ४३ ।' ता महिषी: सान्त्वयन्ती तूष्णीं स्थापयन्ती । सान्त्वं करोतीति णिच् । तं दशरथं मृतं तैले न्यक्षिपत् निक्षिप्तवती । आशु शन्त्रिम् | मां भूत्पू - तिरिति । क्षिपेर्लुङ् । 'पुषादिद्युतालदितः परस्मैपदेषु । ३ । १ । ५५ । इत्यङ् । कस्मात्तमक्षिपदित्याह — भरतप्रतीक्षा तेन संस्कारः कर्तव्य भरतं प्रतीक्षते । ‘ईक्षिक्षमिभ्यां च ।' इत्युपसंख्यानाण्णः । दूतान् प्रास्थापयत् अहितवती । राजात्मजं भरतमानिनीपून् आनेतुमिच्छून् । अन्यथा केकयीवै- मुख्याद्भरतेऽपि वैमुख्याहूता अपि नानेतुमिच्छन्ति । तत्रापि मन्त्रिमतेन न स्वमतेन । यूनः तेषां गन्तुं समर्थत्वात् ॥ २३ ॥ सुप्तो नभस्तः पतितं निरीक्षाञ्चक्रे विवस्वन्तमधः स्फुरन्तम् । आख्यद्वसन्मातृकुले सखिभ्यः पश्यन्प्रमादं भरतोऽपि राज्ञः ॥ २४॥ सुप्त इत्यादि - भरतोऽपि मातृकुले वसन् सखिभ्यो मित्रेभ्यः आख्यत् कथितवान् । ख्यातेर्लुङ् । 'अस्यतिवक्तिख्यातिभ्योऽङ् | ३ | १ | १२|' इत्यङ् । क्रियाग्रहणं कर्तव्यमिति संप्रदानसंज्ञायां चतुर्थी । किमाख्यदित्याह-अहं सुप्तः सन् नभस्तो, नभस्तलात् आकाशात्पतितं विवस्वन्तमादित्यं स्फुरन्तं चलन्तं निरीक्षांचक्रे निरीक्षितवान् । ईक्षे: 'इजादेश्च गुरुमतोऽनृच्छ । ३।१।६६।१ इत्याम् | उत्तमविषये सुप्तप्रमत्तावस्थायां चित्तव्याक्षेपात् परोक्षे लिट् । पश्यन् विलोकयन् । राज्ञो दशरथस्य | प्रमादमनिष्टम् ॥ २४ ॥ । अशिश्रवन्नात्ययिकं तमेत्य दूता यदाऽर्थं प्रयियासयन्तः । आंहिष्ट जाताऽञ्जिहिषस्तदाऽसावुत्कण्ठमानो भरतो गुरूणाम् २५॥ अशोत्यादि - दूता. एत्य आगत्य भरतमातृकुलमित्यर्थः । अपूर्वादिणः क्त्वा -- • प्रत्ययस्य ल्यपि तुकि च रूपम् । यदा तं भरतमर्थं वचनमशिश्रवन् श्रांवितवन्तः । अर्थयतेऽनेनेति णिच् घञ्च । शृणोतेर्ण्यन्ताल्लुङि ‘चङि ।६।१।११।' इति द्विर्वच- नम् । 'स्रवतिशृणोतिद्रवतिप्रवतिप्लवंतिच्यवतीनां वा |७|४|८१ | इत्यभ्यासस्ये- त्वम् । आत्ययिकम् अत्ययो विनाशः स प्रयोजनमस्येति तदस्य प्रयोजनभिति ठञ् | पिता ते म्लानस्त्वां द्रष्टुमिच्छतीति आत्ययिकं वचनम् | तमिति 'गतिबुद्धिप्रत्यवसानार्थशब्दकर्म्माकर्म्मकाणामणि कर्त्ता सणौ |१|४|५२ ।। इति कर्मसंज्ञा । शृणोतेः शब्दकर्मत्वात् अर्थमिति 'कर्तुरीप्सिततमं कर्म |१|४|४९१ इत्यनेन कर्म । प्रयियासयन्तः प्रयातुमिच्छन्तं भरतं प्रयोजितवन्तः । सन्नन्तयन्तोऽयम् । तदा असौ भरतो जाताऽञ्जिहिषः | जाता अञ्जिहिषा