पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
44
SANDHYAKARA NANDI.


भटानां सट्टेन उत्पिष्टो विकटो विषमः कटको नितम्बो यस्य सुवेलस्य अतएव अतुलपराक्रमदुर्निवारवानर- वलविमर्दनदलितत्वात् अपसरणं शरणं यस्याः सा तादृशौ चरणानां चारभटौ बेगशक्तिर्येषां करियूथानां ।  अन्यच्च यस्येति भोमस्य विकटो रमणीयः कटकः कन्दावारः करिघटा(ट)शास्त्रभूयिष्ठा विनिष्ठ्यताः पलायाम्बभूवुः ॥ २८ ॥

हरिपरिहृतोपमहिषोविकृतपादाविकोऽभिहतशृङ्गः ।
यः परिभवभर[भ]ङ्गुर विगतश्रीकाननाभोगः ॥ ३० ॥

 हरीत्यादि । तथा हरिभिः सिंहैः परिहतः । अपगता महिषयूथा विस्ताः पादाव(ध)यः पाद- पर्बता अभिहतं टङ्ग शिखरं यस्य परिभवो विमईकाननाभोगो वनाभोगः ।  अन्यत्र हरयोऽश्वा वाहिनिकवलवाहनानि महिषाः पादाविकाः पदातयः ग्टङ्गं प्रभुत्वं परिभवो- भङ्गुरः आनतो विगतीको मलिनः आननाभोगः बक्त्राभोगः ॥ ३० ॥

झगिति विकुरङ्गसङ्गतिरहितोविहतेक्षणश्रवणः(तः) ।
विश्वाप(पा)दाश्रयोऽभूहिकौर्णखड्गादिरपदभूदा(ता)रः ॥ ३१ ॥

 झगौत्यादि। वयः पक्षिण: कुरङ्गाः स्मृगाः ईक्षणश्रवणाः सर्पाः श्वापदा: व्याघ्रादयः खड्गादयो गण्डकगवयमभूतयः अपदा अविद्यमानस्थानाः भूदाराः शूकराः ।  अन्यत्र विकुः विगतपृथ्वौकः अङ्गानि राज्याङ्गानि ईक्षणं चक्षुः श्रवणं श्रुतिः विकलेन्द्रियत्वात् तदुभयमपि विहतं विश्वापदाश्रयः समस्तविपदाश्रयः विकीर्णखगादिः अपास्तनिस्त्रिंगादिश स्त्रजातः । अपद- भुवो अविद्यमानपादारोपणस्याना दारा:कलत्राणि यस्येति यथायथं नेयं ॥ ३१ ॥

विहितगुरुगण्डमण्डलनिर्भरभरकुञ्जराजिवैतथ्यं ।
मुखरितगुहाबलिबलनिर्घोषोऽधिकन्दरक्षुभितः ॥ ३२ ॥

विहितेत्यादि । विहितं गुरूणां गण्डानां गण्डशैला(वा)नां मण्डल स्य] ममूहस्य तथा निराणां भरम्य मन्भारस्य तथा कुचानां राजेः पतेः वैतथ्यमन्यथाभावो यस्य गिरेः प्रतिध्वनिभिः मुखरितासु गुहाबलौषु बलन् बानरबलस्य निर्घोषो यत्र अधि अधिकं कन्दरेषु क्षुभितं क्षोभो यत्र ।


Here is a redundant fe in the text. २ The text is corrupt; nearly two padas of the last verse have entered into this. The verse is completely restored from the commentary.