पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RĀMACARITA. अन्यत्र विहितं गुरूणां गण्डस्थल निर्झर मदप्रवाहं विभ्रतां कुञ्जराणां आजे: सङ्गरस्य वैतथ्यं वैफल्यं यस्य मुखरितगुभिः मुखरितदिग्भिः हावलिभिः हाहाकारैः बलन् सेन्यस्य निर्घोषो यस्य दरेण भयेन चुभितः अधिकं यथा भवति ॥ ३९ ॥ अपि विफलपचपल्लव तद्भ्यासगहनमद्राक्षौत् । बहुधातुरञ्जितं यमवसन्ननानाकर लोकः ॥ ३३ ॥ 45 अपौत्यादि । विगतानि फलपत्रपलवानि येषां तानि तादृशि अभ्यासगहनानि उपवनानि यस्य गिरेः बहुभिर्धातुभिः गैरिकहरितालकठिन्यादिभिः रञ्जितं अवसन्ना नाना अनेके आक (का)रा: खनयो यस्य । अन्यत्र विफल: पत्राणां करितुरगमहिषाणां पलवो विस्तार तथा काण्डादौनामस्खाणां अभ्यास गहन अभ्यसनकष्टं यस्य भौमस बहुधा अभिः प्रकारैः शोकभयादिभिरातुरं जितं पराजितं असत्रो नाना उभयः करो इस्तो यस्य "नानानेकोभयान्धयोः” ॥ ३३ ॥ कूटप्रस्थविभागैः सौवर्णै राजतैमणिमयैयः । द्रागदया टिकपौनपरिग्रहवितैः विगतश्रौः ॥ ३४ ॥ कूटप्रस्थेत्यादि । द्राक् शीघ्रं अदयं नियं अटितुं गौलं येषां तैः कपोनस्य वानरपतेः परिग्रहै: परिवारैः सैनिकैः कर्त्तृभूतैः वितैः चुलैः कूटानां शिखराणां प्रस्थानां मानूनां विभागः सुवर्णादिमयैर्हेतु- भूतैर्विहीना श्रीः शोभा यस्य । अन्यत्र द्राक् अदयाटिकानां दण्डदियावर्गाणां (?) पौनेन स्थूलेन परिग्रहेण विहतै विभावितैः कूटेन राशिना प्रस्बेन परिमाणविशेषेण कृतैर्विभावितैर्भागः सुवर्णदिमयैर्हेतुभिः विहीना श्रीः मम्पन्तिः यस्य भौमस्य ॥ ३४ ॥ इति यच विबुधविद्याधरगन्धबाङ्गनाभुजङ्गास्ते । कल्याप्तमारधारितसुरता अपि दुरमनायन्त ॥ ३५ ॥ इत्यादि । इत्यनन्तरोदित विमव्यतिकरेण यत्र सुवेले विबुधादीनां अञ्जनानां भुजङ्गास्ते वानरादयः कल्पया मंदिरया उद्दीप्तत्वात् आप्नो मारो मन्त्रथस्तेन धारितं सुरतं येषां ते तादृशा अपि दुर्मनायिताः । अन्यत्र इत्यनन्तरोदौरिततद्वंशावमाने सति यस्मिन् भौमे ते सुभटा भौमसहायाः ॥ ३५ ॥ अथ बहुतरसा हत्या युक्तो रामेण वित्तपालस्य । वनोरभ्यासे सहसा सोरेशितनयः प्रैषि ॥ ३६ ॥ ₹ The text has ण्डाद्य after पलव, which is evidently wrong. २ The last page of the MS. of the Comm. commencing here has been retraced with ink and so is very unreliable. ३ स ।