पृष्ठम्:रामविजयमहाकाव्यम्.pdf/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

स मेने मे नेति प्रमइदतनूजन्मरहितः स शापः किन्त्वाशीहदयकलितार्थो बुधवरः । समायान्मायातः पुरुष इव मोदं क्षितिपति- मुंदाक्रान्तस्वान्तः सपदि तमसातः पुखरम् ॥ ३९ ॥ स यज्ञे यज्ञेशं विविधफलदातारमसकृ- द्वशिष्ठस्याभ्यर्णे गदितुमिति यष्टुं दशरथः । प्रयातो यातोरुपमदहृदयस्तस्य विपिन धनच्छायं वृक्षैः फलकुसुमभारेण नमितः ॥ ४६ ॥ तमालैालैजविटपनिकरोचकुसुमितैः प्रियालानां जालैः कुरबकवनोद्धासिकुसुमैः । रसालैः शालैप्यद्भमरनिचयैः कोकिलपत- द्रुतैः कान्तः शान्तैः सहरिहरिणानां समुदयैः ॥१७॥ अपुष्पात् पुष्पादागतफलचौवृक्षनिचयै- र्गजैः सिंहैर्नागैर्नकुलवृषदंशानुमाहिः । स्वभावाभावाद्वै विहितसस्विभावर्जलचरैः स्थलस्थैः सद्भिर्वा समुचितसदाचारनिपुणैः ।। ४८ ।। वशिष्ठं शिष्टं तं सपदि समुदीक्ष्य क्षितिपती स्थाद्दूरात्तस्मिन्नथ समवतीर्य क्षितितले । पपाताऽऽपाताऽस्या भुव उज्यशास्तचरणयोः स्वभावारकालुण्यापहातिकशनासयशसोः ॥ ४ ॥