पृष्ठम्:रामविजयमहाकाव्यम्.pdf/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः

रावणोऽपि गृहायागादागामीश्वरतान्तकः । परीतं बिपरीतं का जानन पर्याकुलेन्द्रियः ॥ १९ ॥ कुरङ्गो रञ्जयन् भूमि रुचा चारुतराङ्गका । जयन्नन्यकुरङ्गान्यान् वृद्धगातटेउपटत् ॥ २० ॥ हरिणः सोऽचरत्साग्रा हरिता हरिता नवाः । हरितायामुत्तरस्यां गोदाया हरितोरणे ॥ २१ ॥ उटजान्ते तमद्राक्षीदन्तं जातु: जानकी। छेक कर्तुममुं चैच्छत्सर्वरत्नमयं मृगम् ॥ २२ ॥ अथाबभाषे श्रीराम सीता सुमरलोमिता। धृत्वाऽर्पय पते मह्यं क्रीडार्थ रत्नरोहिषम् ॥ २३ ॥ माऽऽग्रहं कुरु वैदेहि गृह्यकं कर्तुमेतकम् । मायाविनश्चरन्त्यत्र यथा शूर्पणखा शुभे ॥ २४ ॥ विधातृसर्गे कापीढक न दृष्टो न श्रुतो मृगः । रामेणोत्तोति सोचेऽमुं पुनर्देहीति साग्रहम् ॥ २५ ॥ ततो रामः स इष्वासं गृहीत्वा सेषुधि गृहात् । तं. राममनुसतु हि समेत्यानुजभाजगौ ॥ २६ ॥ मत्तः शृणु महावीर यत्ता संरक्षणे भव । दनुजेभ्यः प्रजावत्या इत्युक्त्वाऽनुजगाम तमः ॥२७॥ दृश्यते लीयते वापि कन्विदुप्लुत्य गच्छति । एवं जहार राम तं स समो योजनान्तरे ॥ २८ ॥