पृष्ठम्:रामविजयमहाकाव्यम्.pdf/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः

पद्मशङ्खोत्तरश्रीकं लसन्मकरकच्छपम् । श्रीदपुण्यजनावासमलकानगरायितम् ।। ५९ ॥ चक्रपद्माश्रयत्वेन बदरीकाननालयात् । भुवनाधारकत्वेन ध्रुबं नारायणायितम् ॥ ६ ॥ व्यालित्वान्नगवासित्वात् सदा रुद्राक्षधारणात् । नीलकण्ठाश्रयत्वेन कामदं शङ्करायितम् ॥६१ ॥ श्रियं दधन्मुनीन् बिभ्रन्नगालि गजताकुलम् । हरीन्दधानं मधुरं समुद्रादधिकं श्रिया ॥६२॥ सानुजं जानकीजानिं शबरी मुनिकिङ्करी । निनाय स्वाश्रमपदं विश्वामाय श्रमाकुलम् ॥ ६३ ।। पादौ पायेन तस्याथ प्रक्षाल्योदकमात्मनः शबरी साधु किङ्करी ॥ ६ ॥ श्रुतिभिर्मुग्यते यत्तत् प्राप हीनाऽपि सा जनेः । भक्त्या केवलया लभ्यों हीश्वरोऽनन्ययाऽचितः ॥६५॥ सानुजं पूजयामास श्रीरामं शबरी मुदा । स्वादून्यस्वादयत्तेन फलानि बदराणि च ॥ ६६ ॥ न कुलेन न शीलेन विद्यया नापि तीक्ष्णया । स तथा लभ्यते रामो यथा भक्त्या ह्यनन्यया ॥ ६७ ॥ ऋष्यमूको गिरिवरो योजनात्परतः प्रभो । तत्रस्थैर्वानरलभ्या सीतावार्ता सहेतुका ॥ ६८