पृष्ठम्:रामविजयमहाकाव्यम्.pdf/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये।

चिरप्रार्थितलब्धस्य पश्यतस्तव साम्प्रतम् । पुरो हास्यामि हे राम कलेवरमिदं प्रभो ॥ ६९ ॥ इत्युक्त्वारुह्य शबरी चित्यां तत्याज विग्रहम् । स्मरन्ती तं समाधाय पश्यन्ती च समागतम् ॥ ७० ॥ शबरीमनुकम्प्याथ पम्पासम्पादिताह्निकौ । ददृशाते धरायां तौ धरस्थैर्वानरैर्नरौ ॥ ७१ ॥ ग्रीवामुन्नम्य सुग्रीवो मारुतिं व्याहरत्तराम् । गत्वा वाडवरूपेण बुध्वा बोधय मां नरौ ॥ ७२ ॥ वालिमायानरौ तौ चेद्भ्रुविकारेण बोधयेः। यदि शुद्धौ शुभाचारौ तौ ज्ञात्वाऽऽगत्य सूचयेः ॥७३॥ वायुसूनुरथागत्य बटुर्भूत्वा गिरा पटुः । तत्पृष्टोदन्तरामोक्तस्वोदन्तोऽगाहरीश्वरम् ॥ ७ ॥ अयोध्याधिपती राजा पिता दशरथो रथी। तदाज्ञया वनं यातौ ससीतौ रामलक्ष्मणौ ॥ ७५ ॥ तत्र पौलस्त्यमुषितां सीतामन्वेष्टुमागतौ । तन्मित्रतोपसम्पन्नकार्यवत्ताऽस्ति वां परा ॥ ६ ॥ इत्यादिश्य सखित्वेनाञ्जनेयेनाग्निसाक्षिणा । योजितौ परया मत्या क्षितीश्वरकपीश्वरौ ॥ ७७ ॥ तदुदन्तश्रुतिकृतप्रतिज्ञो हन्तुमाहवे। वालिनं राघवोऽपृच्छद‌त्रानागमकारणम् ॥ ७८ ॥