पृष्ठम्:रामायणमञ्जरी.pdf/११९

पुटमेतत् सुपुष्टितम्
११०
काव्यमाला ।


शतह्रदाया जातोऽहं विराधो नाम राक्षसः ।
वीर त्वयाद्य निहतः शापान्मुक्तस्तमोमयात् ॥ ३७९ ॥
पुराहं तुम्बुरुर्नाम गन्धर्वो विभवोन्मदः ।
रम्भासक्तः कुबेरेण शप्तस्तदभिलाषिणा ॥ ३८० ॥
त्वत्तो वधावधिः शापः स चायं क्षपितो मया ।
स्वस्ति तेऽस्तु व्रजाम्येष त्रिदिवं त्वत्प्रसादतः ॥ ३८१ ॥
अवटे क्षिप मे कार्य संस्कारो ह्येष रक्षसाम् ।
शरभङ्गमितो गत्वा पश्य श्रेयःपदं मुनिम् ॥ ३८२ ॥
इतो योजनमुत्क्रम्य सार्धं तस्याश्रमस्थितिः ।
इत्युक्त्वा लक्ष्मणाक्षिप्तशरीरः स दिवं ययौ ॥ ३८३ ॥
इति विराधवधः ॥ १० ॥
हत्वा विराधं काकुत्स्थः परिष्वज्य च वल्लभाम् ।
लक्ष्मणानुगतो वीरः शरभङ्गाश्रमं ययौ ॥ ३८४ ॥
अस्मिन्नवसरे-शक्रः स्यन्दनेनाग्निवर्चसा ।
शरभङ्गं समभ्येत्य बभाषे त्रिदशैः सह ॥ ३८५ ॥
भगवन्पूततपसस्तव स्वाधीनतां गताः ।
सर्वे सुकृतिनां लोका ब्रह्मणः पदमाप्नुहि ॥ ३८६ ॥
इत्युक्त्वा राममायान्तं दूरादालोक्य सानुजम् ।
सहस्रनेत्रस्त्रिदशानुद्धर्षविवशोऽवदत् ॥ ३८७ ॥
अनेन सुमहत्कार्यं सुरकार्यं यशस्विना ।
संपूर्णकृत्यं कालेन द्रक्ष्याम्येनमकिल्बिषम् ॥ ३८८ ॥
इत्युक्त्वा मुनिमामन्त्र्य देवैः सह शचीपतिः ।
दिवमाचक्रमे कुर्वन्प्रभाप्रावरणा दिशः ॥ ३८९ ॥
रामोऽपि सानुगं दूरात्प्रयान्तं वीक्ष्य वज्रिणम् ।
प्रणनाम समभ्येत्य शरभङ्गं कृताञ्जलिः ॥ ३९० ॥
प्रस्थितो ब्रह्मसदनं गन्तुं सोऽपि महामुनिः ।
प्रणयात्कर्तुमातिथ्यं राघवाय व्यलम्बत ॥ ३९१ ॥