पृष्ठम्:रामायणमञ्जरी.pdf/१२०

पुटमेतत् सुपुष्टितम्
१११
रामायणमञ्जरी ।


सोऽब्रवीत्तपसा राम मया लोकाः सनातनाः ।
संप्राप्तास्तान्गृहाण त्वं पूज्यत्वात्सर्वमर्हसि ॥ ३९२ ॥
इत्युक्ते मुनिना रामो बभाषे विनयानतः ।
दर्शनं भवतामेव ब्रह्मधाम्नोऽधिकं मम ॥ ३९३ ॥
किं तपोभिरपर्यन्तैः किं यज्ञैर्बहुडम्बरैः ।
किं वा जलभृतैस्तीर्थैर्दर्शने त्वादृशां सति ॥ ३९४ ॥
निजपुण्यार्जितांल्लोकान्गमिष्यामि कृतोचितः ।
उक्त्वेत्यपूजयत्तस्य विश्वकारुण्यपुण्यताम् ॥ ३९५ ॥
सुतीक्ष्णस्याश्रमे राम मुनेर्वासस्तवोचितः ।
शरभङ्गो निगद्येति विग्रहं त्यक्तुमुद्ययौ ॥ ३९६ ॥
सप्तधातुमयं देहं सर्पनिर्मोकवन्मुनिः ।
त्यक्त्वाग्नौ पावकाकारः कुमारः समपद्यत ॥ ३९७ ॥
ततः स दिवमाक्रम्य परं शक्रपुरःसरः ।
ब्रह्मधाम ययौ धात्रा विहितस्वागतः स्वयम् ॥ ३९८ ॥
इति शरभङ्गदर्शनम् ॥ ११ ॥
शरभङ्गे गते व्योम्ना तदाश्रमनिवासिनः ।
मुनयोऽभ्याययुः सर्वे रामं सत्यपराक्रमम् ॥ ३९९ ॥
वैखानसा निराहारा वालखिल्या मरीचिषाः ।
अश्मकुण्ठाः पयोभक्षा मृगाजगरगोव्रताः ॥ ४०० ॥
दन्तोलूखलिनो व्योमनिलयाः पवनाशिनः ।
सततं सलिले मग्ना नग्नाः स्थण्डिलशायिनः ॥ ४०१ ॥
पञ्चातपा निरालम्बा वृक्षशाखाग्रलम्बिनः ।
अदृश्या धूमपाः पादाङ्गुष्ठाधाराः फलाशिनः ॥ ४०२ ॥
'तमूचुर्विनयानभ्रं तमभ्येत्य तपस्विनः ।
चण्डांशुमालाः कपिलाः कुर्वाणास्तेजसा दिशः ॥ ४०३ ॥


१. 'र्मुनयो नम्रं' शा०.