पृष्ठम्:रामायणमञ्जरी.pdf/१२१

पुटमेतत् सुपुष्टितम्
११२
काव्यमाला ।


एते त्वां मुनयो धन्यं तपोरक्षापरिक्षमम् ।
वर्णाश्रमगुरुं वीरं पश्यन्ति गुणगौरवात् ॥ ४०४ ॥
दातॄणां यज्ञशीलानां यतीनां तीर्थसेविनाम् ।
रक्षणात्क्षितिपाः सत्यं फलषड्भागभागिनः ॥ ४०५ ॥
अरक्षमाणाः क्ष्मापाला ब्राह्मणा ब्रह्मवर्जिताः ।
धनिनो दानहीनाश्च भुवो भाराय केवलम् ॥ ४०६ ॥
अल्पावशेषतां नीता वनेऽस्मिन्राक्षसैर्वयम् ।
तपःक्षयभयात्तेषु शापोऽस्माभिर्न चोज्झितः ॥ ४०७ ॥
राक्षसान्क्षपय क्षिप्रं मुनिसंक्षयदीक्षितान् ।
वयं त्वामधुना वीर शरण्यं शरणं गताः ॥ ४०८ ॥
इति श्रुत्वा मुनिगिरं राघवो रचिताञ्जलिः ।
उवाच सत्त्वधवलं दन्तांशुविशदं वचः ॥ ४०९ ॥
भवन्त एव लोकेषु शरण्याः शरणार्थिनाम् ।
किं त्वाज्ञासंविभागे वः पात्रं पुण्यवतां वरः ॥ ४१० ॥
एषोऽहं भवतामर्थे सज्जः कण्टकशोधने ।
स्वयं मे निश्चयो ह्येष शासनानुग्रहोऽधिकः ॥ ४११ ॥
इत्युक्त्वा तान्समामन्त्र्य सुतीक्ष्णस्याश्रमं मुनेः ।
जगाम रामः कामस्य रम्यं धाम शमस्य च ॥ ४१२ ॥
इति तापसाभयदानम् ॥ १२ ॥
सुतीक्ष्णं तीक्ष्णतपसां तीक्ष्णांशुमिव तेजसाम् ।
निधिं प्रणम्य काकुत्स्थः स्थितिं भेजे तदाज्ञया ॥ ४१३ ॥
तत्र तेन कृतातिथ्यः सुखं नीत्वा विभावरीम् ।
प्रातश्चचार रम्यासु तत्तपोवनभूमिषु ॥ ४१४ ॥
तं सज्जकार्मुकं दृष्ट्वा सायकेष्वधिकादरम् ।
उवाच सीता संचिन्त्य राक्षसक्षयदीक्षितम् ॥ ४१५ ॥
आर्यपुत्र कथं नाम यत्नेनैव निशाचराः ।
मृग्यन्ते ते हि नाद्यापि निकारपदवीं श्रिताः ॥ ४१६ ॥