पृष्ठम्:रामायणमञ्जरी.pdf/१२२

पुटमेतत् सुपुष्टितम्
११३
रामायणमञ्जरी ।


नोत्तरन्ति प्रकोपस्य पारं किल भवद्विधाः ।
न यावदपराधेन सेतुर्धृतः पुरो महान् ॥ ४१७ ॥
असत्यं शीलविरहः प्राणहिंसा च देहिनाम् ।
प्रकृष्टं पातकं प्राहुर्न यशः कर्मदोहदम् ॥ ४१८ ॥
जन्मापूर्वमसत्यं ते शीलध्वंसस्य का कथा ।
सांप्रतं निर्विकारेषु हिंसा रक्षःसु नोचिता ॥ ४१९ ॥
अधिज्यं ते धनुरिदं नायुद्धेन प्रशाम्यति ।
अवश्यमुद्यतं शस्त्रं प्रतारयति दारुणम् ॥ ४२० ॥
न्यासीकृतं मुनिः कश्चित्कृपाणं केनचित्पुरा ।
ररक्ष सुचिरं हस्ते धृत्वा त्यक्तकमण्डलुः ॥ ४२१ ॥
न्यासपालनकष्टेन स संत्यक्ताखिलक्रियः ।
खड्गग्रहप्रसङ्गेन चक्रे मनसि शूरताम् ॥ ४२२ ॥
स क्रूरतां गतः काले पुण्यान्निजपदाच्युतः ।
अधिज्यं मा कृथाश्चापं नाथ रक्षस्व सांप्रतम् ॥ ४२३ ॥
प्रणयादिदमुक्तोऽसि न परिज्ञानगौरवात् ।
क्षन्तुमर्हसि मे नाथ स्त्रीस्वभावोदितं वचः ॥ ४२४ ॥
श्रुत्वेति जानकीवाक्यं प्रहृष्टो रघुनन्दनः ।
उवाच सीते जानीषे सर्वं वक्तुमनिन्दितम् ॥ ४२५ ॥
रक्षोभिरभिभूतानां रक्षायै निश्चितो मया ।
मुनीनां दीप्ततपसामयमाज्ञापरिग्रहः ॥ ४२६ ॥
इत्युक्त्वा सानुजो रामः प्रययौ मैथिलीसखः ।
पश्यन्निजयशःशुभ्रपुष्पस्मितसिता लताः ॥ ४२७ ॥
स व्रजन्दिवसस्यान्ते शिथिलत्विषि भास्करे ।
सयौवनायां संध्यायां ददर्श विपुलं सरः ॥ ४२८ ॥
सतां वृत्तमिव स्वच्छं वनश्रीमणिदर्पणम् ।
मज्जत्करिकराक्षेपक्षोभशीकरदुर्दिनम् ॥ ४२९ ॥


१. 'रयशः' शा०

१५