पृष्ठम्:रामायणमञ्जरी.pdf/१२३

पुटमेतत् सुपुष्टितम्
११४
काव्यमाला ।


उत्फुल्लकमलैर्व्याप्तं लोलालिशबलोदरैः ।
मुखैर्मधुमदाताम्रैर्भ्रान्ताक्षैः सुदृशामिव ॥ ४३० ॥
पवनान्दोलितोदारफुल्लेन्दीवरसुन्दरम् ।
लीलाकटाक्षशबलं केलिवेश्म रतेरिव ॥ ४३१ ॥
विलोक्य लोलकल्लोलदोलारूढसरोरुहम् ।
तत्सरः सरसस्तेषां बभूव नयनोत्सवः ॥ ४३२ ॥
तत्र संदेहितामोदमत्तालिकुलनिःस्वनैः ।
गीतवाद्यरवं रामः शुश्राव श्रवणामृतम् ॥ ४३३ ॥
किमेतदिति पृष्टोऽथ मुनिस्तेन कुतूहलात् ।
उवाचेदं वचो राम दमकर्णेः पदं मुनेः ॥ ४३४ ॥
स हि वाताशनः स्थाणुभूतो वर्षायुतं तपः ।
तेपे बभूवुस्त्रिदशा येन प्रभ्रंशशङ्किताः ॥ ४३५ ॥
विघ्नायाप्सरसः पञ्च तैर्विसृष्टास्तदाश्रमम् ।
प्रययुर्यौवनोन्मत्ता मदनोन्मादभूमयः ॥ ४३६ ॥
तासां विवलितापाङ्गसंगतानङ्गविभ्रमैः ।
दमकर्णिर्ययौ क्षिप्रं प्रौढप्रीतिविधेयताम् ॥ ४३७ ॥
महागिरिगुहास्थैर्यमपि चेतो महात्मनाम् ।
पातयन्त्यप्रयत्नेन तरङ्गिण्यो वराङ्गनाः ॥ ४३८ ॥
स्मरस्य यदनायत्तं रागस्वाविषयं च यत् ।
तन्मुनेर्मानसं तासां केलिकार्मुकतामगात् ॥ ४३९ ॥
स सुन्दरतरं कृत्वा नवं लीलामयं वयः ।
ताभिस्तु सहितोऽहानि व्यगाहत महोत्सवः ॥ ४४० ॥
तस्यास्मिन्सरसस्तीरे सुरनारीविलासिनः ।
गीतवाद्यरसोत्सेकः सुगतः श्रूयते ध्वनिः ॥ ४४१ ॥
अत्याश्चर्यमयं श्रुत्वा विस्मितो रघुनन्दनः ।
चिरं तस्थौ ययुर्यावद्वने सार्धाः समा नव ॥ ४४२ ॥