पृष्ठम्:रामायणमञ्जरी.pdf/१२४

पुटमेतत् सुपुष्टितम्
११५
रामायणमञ्जरी ।


ततः कथापरिचितं मनोरथपथोचितम् ।
रामः सुतीक्ष्णनिर्दिष्टमगस्त्यस्याश्रमं ययौ ॥ ४४३ ॥
इति सुतीक्ष्णाश्रमनिवासः ॥ १३ ॥
स सीतासहितो गच्छन्नगस्त्याश्रमकाननम् ।
उवाच लक्ष्मणं पश्य संतोषविषदा दिशः ॥ ४४४ ॥
आश्रमोऽयं श्रमहरस्तस्य पुण्यात्मनो मुनेः ।
नूनं यदेता जृम्भन्ते हृदयानन्दसंपदः ॥ ४४५ ॥
भृङ्गाक्षमालावलयव्यग्रपल्लवपाणयः।
पलाशिनो वल्कलिनो भान्त्येते मुनयो यथा ॥ ४४६ ॥
प्रशान्तवैररजसां सिंहेभफणिबर्हिणाम् ।
प्रेमप्रणयिनी चेष्टा निर्विकारैव दृश्यते ॥ ४४७ ॥
शीलवृत्तिः शमेनेव दानेनेव दयालुता ।
मुनिना दक्षिणेयं दिग्विभाति द्यौरिवेन्दुना ॥ ४४८ ॥
घोराविल्वलवातापी पुरा दैत्यौ बभूवतुः ।
यत्प्रतापेन सातङ्का बभूव भुवनत्रयी ॥ ४४९ ॥
मायामेषाकृतिं कृत्वा सदा भ्रातरमिल्वलः ।
ब्राह्मणेभ्यो वधायैव ददौ तन्मांसभोजनम् ॥ ४५० ॥
तृप्तानामथ विप्राणां कुक्षिं भित्त्वातिदारुणः ।
वातापी निर्ययौ क्षिप्रमित्यासीद्ब्राह्मणक्षयः ॥ ४५१ ॥
कालेनाथ मुनीन्द्रोऽसौ तेनागस्त्यो निमन्त्रितः ।
सिद्धं वातापिमांसेन संस्कृतं प्राप भोजनम् ॥ ४५२ ॥
एहीति हर्षादाहूते भ्रात्रा भ्रातरि दानवे ।
जीर्णो मयेति विहसन्नुवाचोद्गारवान्मुनिः ॥ ४५३ ॥
इल्वलं भ्रातृनिधनात्क्रुद्धं क्रोधान्महामुनिः ।
ददाह दुरितच्छेदाच्चक्षुषा सूर्यतेजसा ॥ ४५४ ॥


१. 'वातापिर्नि' स्यात्. २. 'भ्रातर्भ्रात' शा०. ३. 'च्छेत्ता च' ख.