पृष्ठम्:रामायणमञ्जरी.pdf/१२५

पुटमेतत् सुपुष्टितम्
११६
काव्यमाला ।


तस्येदमाश्रमपदं पुण्यार्हं कुम्भजन्मनः ।
विन्ध्यो यदाज्ञयाद्यापि धत्ते भूमिसमानताम् ॥ ४५५ ॥
प्रणम्यो भगवानेष चुलकापीतसागरः ।
इत्युक्त्वा राघवः प्रायादगस्त्यभ्रातुराश्रमम् ॥ ४५६ ॥
इतील्वलोपाख्यानम् ॥ १४ ॥
तं प्रणम्य ततो गत्वा प्रहृष्टो रघुनन्दनः ।
अगस्त्यस्याश्रमं पुण्यं विससर्जानुजं पुनः ॥ ४५७ ॥
विनयाल्लक्ष्मणेनाथ शिष्यस्यावेदितो मुनेः ।
विवेश शासनात्तस्य प्रह्वो दशरथात्मजः ॥ ४५८ ॥
विधिना प्रणिपत्याथ सानुजो दयितासखः ।
मुनीन्द्रं तद्विनिर्दिष्टमातिथ्यं प्राप राघवः ॥ ४५९ ॥
सुखोपविष्टे पुरतः काकुत्स्थे मुनिरब्रवीत् ।
स्वगुणैर्गुरुतां यातः सत्कारार्होऽसि राघव ॥ ४६० ॥
पूजामभ्यागतो यस्मान्नासादयति शक्तितः ।
परत्र मिथ्यासाक्षीव स मांसं निजमश्नुते ॥ ४६१ ॥
अतिथिर्विमुखो यस्य याति पूजां विना गृहात् ।
स तस्य पापं विन्यस्य पुण्यं हृत्वा पलायते ॥ ४६२ ॥
पूज्यस्त्वमस्य जगतो राजा विरजसां वरः ।
गृहाण वैष्णवं चापं विहितं विश्वकर्मणा ॥ ४६३ ॥
यः सर्वदितिजेन्द्राणां ययौ निधनदूतताम् ।
सायकं ब्रह्मदत्तं च तूणावक्षय्यसायकौ ॥ ४६४ ॥
तप्तहेमप्रभं खड्गं जयायैव ददानि ते ।
अभेद्यं च तनुत्राणमिदं वज्रभृतः प्रियम् ।
रथं मातलिसूतं च कार्यकालोपयोगिनम् ॥ ४६५ ॥
इत्युक्त्वासौ ददौ रत्नं दीप्तं सर्वं रथं विना ।
दत्त्वा पुनरुवाचेदं प्रसादविषदाशयः ॥ ४६६ ॥
कच्चिद्वने न खेदो वः कच्चिन्नोत्कण्ठते मनः ।
तासु राज्यतरुस्फीतफलसंभोगभूमिषु ॥ ४६७ ॥