पृष्ठम्:रामायणमञ्जरी.pdf/१२६

पुटमेतत् सुपुष्टितम्
११७
रामायणमञ्जरी ।


बालिकेयं सखी सीता सुकुमारी सुखोचिता ।
स्नात्वा त्वद्भक्तिपीयूषैर्म्लानिं नायाति कानने ॥ ४६८ ॥
धन्यो जनकभूपालः साध्वी यस्येयमात्मजा ।
प्रायेण न भवन्त्येव लोके सत्यव्रताः स्त्रियः ॥ ४६९ ॥
विभवेष्वनुरागिण्यो विरागिण्यो विपत्सु च ।
अनार्याः कृच्छ्रसंभार्याः पुरुषाणां हि योषितः ॥ ४७० ॥
सुबद्धा अपि शीर्यन्ते म्लानिं यान्ति क्षणेन च ।
दूरस्था एव शोभन्ते पुष्पमाला इवाङ्गनाः ॥ ४७१ ॥
यासामोष्ठपुटे रागः परं मलिनता हृदि ।
गुणभ्रान्त्येव मुष्णन्ति जानीते कस्तदाशयम् ॥ ४७२ ॥
आसन्नदोषाश्चपलाः क्रूरकर्मपरिग्रहाः ।
एता मुहूर्तरागिण्यो घोराः संध्या इव स्त्रियः ॥ ४७३ ॥
इयं तु लोलाभरणा भर्तृव्रतपरायणा ।
रवेः प्रभेव ते सीता न दोषासङ्गभागिनी ॥ ४७४ ॥
इयं वनमही सीतापादन्यासपवित्रिता ।
सेव्यतामधुना प्राप्ता त्वद्बाहुबलपालिता ॥ ४७५ ॥
पुरा भार्गवशापेन देशोऽयं दण्डभूभुजा ।
त्यक्तो निरुदकच्छायो बभूवातिभयंकरः ॥ ४७६ ॥
योजनार्धसहस्त्रेऽस्मिन्पादे विन्ध्यस्य दक्षिणे ।
पर्जन्या नैव ववृषुर्ववुश्च न समीरणाः ॥ ४७७ ॥
ततोऽहं सुरकार्यार्थी संघर्षे मेरुविन्ध्ययोः ।
हिमाद्रिशिखराच्छून्यां प्राप्तः श्वेतामिमां पुरीम् ॥ ४७८ ॥
प्रावृट्जलदारम्भसंभावितनवाङ्कुरा ।
अथेयं विहिता भूमिर्मया सर्वभयोज्झिता ॥ ४७९ ॥
कालेनाथ पुनर्घोरैर्व्याप्तेयं राक्षसैर्मही ।
तत्र त्वद्दोष्णि संनद्धे संरम्भो न ममोचितः ॥ ४८० ॥


१. 'शिखराच्छ्वेतात्प्राप्तः शून्यामिमां' ख.