पृष्ठम्:रामायणमञ्जरी.pdf/१२७

पुटमेतत् सुपुष्टितम्
११८
काव्यमाला ।


इत्युक्ते मुनिना रामो धन्यतामात्मनोऽवदत् ।
दर्शनाभाषणैस्तस्य हर्षपूर्णाश्रयोऽभवत् ॥ ४८१ ॥
इत्यगस्त्यदर्शनम् ॥ १५ ॥
ततो गोदावरीतीरे रम्ये पञ्चवटीतटम् ।
जगामागस्त्यनिर्दिष्टं स्थितये रघुनन्दनः ॥ ४८२ ॥
स गच्छन्पथि रुद्धांशुं सपक्षमिव भूधरम् ।
ददर्श तेजसां राशिर्वृद्धं गृध्रं जटायुषम् ॥ ४८३ ॥
राक्षसोऽयमिति ज्ञात्वा मुनित्राणकृतक्षणः ।
अभ्यद्रवद्वधायास्य रामः सौमित्त्रिणा सह ॥ ४८४ ॥
सोऽब्रवीद्गृध्रराजोऽहं जटायुरिति विश्रुतः ।
विस्रम्भभूरभून्मित्रं राजा दशरथो मम ॥ ४८५ ॥
ज्येष्ठे प्रजासृजां सर्गे योऽभूद्दक्षः प्रजापतिः ।
बभूवुः कन्यकास्तस्य भूतसंतानमातरः ॥ ४८६ ॥
अदित्याद्यासु देवीषु संभूते कश्यपान्मुनेः ।
सुरासुरमुखे तासु विश्वसर्गे समन्ततः ॥ ४८७ ॥
असूत विनता पुत्रौ काश्यपौ तेजसां निधी ।
आदित्यसूतमरुणं गरुडं च खगेश्वरम् ॥ ४८८ ॥
अरुणस्यास्मि तनयः संपाती च ममाग्रजः ।
युवां सख्युः क्षितिपतेर्दिष्ट्या पश्यामि पुत्रकौ ॥ ४८९ ॥
इत्युक्त्वा गृध्रराजेन परिष्वक्तौ नृपात्मजौ ।
ननन्दतुस्तमभ्यर्च्य दयितं सुहृदं पितुः ॥ ४९० ॥
इति जटायुसमागमः ॥ १६ ॥
ततो मरकतश्यामतालतालीमनोरमाम् ।
रामे पञ्चवटीं प्राप्ते चक्रे सौमित्त्रिराश्रमम् ॥ ४९१ ॥
तत्र प्रसन्नमधुराः स्निग्धाः पश्यन्वनस्थलीः ।
उवाच रामः सौमित्त्रिं नयनानन्दनिर्भरः ॥ ४९२ ॥