पृष्ठम्:रामायणमञ्जरी.pdf/१२८

पुटमेतत् सुपुष्टितम्
११९
रामायणमञ्जरी ।


एते गोदावरीतीरतारशीकरमारुताः ।
लतावधूनां कुर्वन्ति स्फारं कामलता इव ॥ ४९३ ॥
अदूरे पद्मिनी चेयं दृश्यते हंसनूपुरा ।
क्रियते मधुपैर्यस्यां विलोलालकविभ्रमः ॥ ४९४ ॥
एताः सिद्धवधूहस्तन्यस्तसेकोचिता लताः।
तासां भजन्ते सादृश्यं संभिन्नैः स्तबकस्तनैः ॥ ४९५ ॥
उत्कण्ठाकोमलं केलिगीतं किंनरयोषिताम् ।
शृण्वन्ति वलितग्रीवाः स्तब्धकर्णाः कुरङ्गकाः ॥ ४९६ ॥
विद्याधरीणां कोऽप्येष रतिशय्यारसो नवः ।
अनिशं यान्ति मञ्जर्यो यत्पल्लवदरिद्रताम् ॥ ४९७ ॥
मञ्जुगुञ्जद्विहङ्गेषु काननेषु समन्ततः ।
विश्रान्ता इव दृश्यन्ते स्वान्तसंतोषसंपदः ॥ ४९८ ॥
शुभ्राभ्रनिकराकारनिर्झरैः श्वेतपातिमिः ।
भान्ति शीकरनीहारदुकूलिन्यो वनश्रियः ॥ ४९९ ॥
वाताः ससौरभाः शीता मधुरो मधुपध्वनिः ।
शस्यश्यामा मही चेति काननेऽस्मिन्महोत्सवः ॥ ५०० ॥
इत्युक्त्वा पल्लवगृहे स निनाय मनोहरे ।
रजनीं रजतोद्द्योतग्रहराजिविराजिताम् ॥ ५०१ ॥
प्राप्तो गोदावरीं रामः ससीतः सानुजो ययौ ।
कलहंसकुलक्वाणशिञ्जानरशनामिव ॥ ५०२ ॥
अथातिदारुणः प्रातः खलः क्रुद्ध इव क्षुधा ।
दुःसहो दिनपर्यन्तेऽचिरारक्षीब इवाधमः ॥ ५०३ ॥
सुखसेव्यश्च मध्याह्ने च्युतो नीचः पदादिव ।
निरुद्धाशो घनौघेन लोभेनेव दिनेश्वरः ॥ ५०४ ॥
शीतादकृत्रिमोत्कम्पः सीत्काराचार्यतां गतः ।
रोमोद्गमगुरुः स्त्रीणां हेमन्तः प्रत्यदृश्यत ॥ ५०५ ॥