पृष्ठम्:रामायणमञ्जरी.pdf/१२९

पुटमेतत् सुपुष्टितम्
१२०
काव्यमाला ।


दिशो हेमन्तनीहारधूसरा वीक्ष्य लक्ष्मणः ।
व्योम धूमान्धकारं च जगाद रघुनन्दनम् ॥ ५०६ ॥
आर्य हेमन्तसंनाहव्याप्तस्य व्योमदन्तिनः ।
धत्ते तुषारनिकरः करशीकरवर्षताम् ॥ ५०७ ॥
कथावशेषसौभाग्यास्तुहिनम्लानपङ्कजाः ।
एता विभान्ति पद्मिन्यो जरयेव वराङ्गनाः ॥ ५०८ ॥
लज्जयेव घनच्छायो दृश्यते न च दृश्यते ।
शशी धूसरतां यातः कुलीन इव मानुषः ॥ ५०९ ॥
धर्मराजप्रियामाशां सेवमानो दिवाकरः।
शीलभ्रष्ट इव नृपः प्रयातो निष्प्रतापताम् ॥ ५१० ॥
परिम्लानमुखच्छायाः सोच्छ्वासाः संततानिलैः ।
याच्ञ्येव महान्तोऽपि लुब्धतां यान्ति वासराः ॥ ५११ ॥
रजन्यो दीर्घतां यातास्तमसा निष्कला अपि ।
दुराशा इव मुग्धानां लुब्धेषु कुटिलात्मसु ॥ ५१२ ॥
क्षीणदोषः क्व यातोऽसौ कालो विपदमानसः ।
इतीव दुःखिता बाष्पं दिशो वर्षन्ति धूसराः ॥ ५१३ ॥
संत्यक्तपत्त्राभरणा विस्मृतस्तबकस्मृताः।
मौनव्रता इवाभान्ति लताः प्रोषितषट्पदाः ॥ ५१४ ॥
भुजोपधानास्वेतासु हिमशीतासु रात्रिषु ।
त्वद्भक्त्या भरतः शेते दुःखेन भुवि भूपतिः ॥ ५१५ ॥
यातास्त्रयोदश समा वर्षशेषत्रतोऽधुना ।
मयूर इव पर्जन्यं भरतस्त्वां प्रतीक्षते ॥ ५१६ ॥
लक्ष्मणेनेत्यभिहिते भरतस्नेहविक्लवः ।
गोदावरीतटे स्नात्वा ययौ रामः स्वमाश्रमम् ॥ ५१७ ॥
इति हेमन्तवर्णनम् ॥ १७ ॥


१. 'भ्रष्टो नृप इव' ख. २. 'स्मिताः' ख.