पृष्ठम्:रामायणमञ्जरी.pdf/१३०

पुटमेतत् सुपुष्टितम्
१२१
रामायणमञ्जरी ।


ततः शूर्पनखा नाम राक्षसी रावणस्वसा ।
रामं यदृच्छया याता ददर्श मदनद्युतिम् ॥ ५१८ ॥
सिंहस्कन्धं महाबाहुं कान्तं कमललोचनम् ।
शौर्यशृङ्गारयोर्योग्यमिव संकेतमन्दिरम् ॥ ५१९ ॥
तं वधूसहितं दृष्ट्वा सा बभूवाभिलाषिणी ।
कान्तिं रतिसनाथस्य बिभ्राणं पुष्पधन्वनः ॥ ५२० ॥
सा बभाषे विरूपाक्षी रामं राजीवलोचनम् ।
भेरीभैरवगम्भीरस्वरा मधुरभाषिणम् ॥ ५२१ ॥
को भवान्कानने कान्तः स्त्रीसहायो धनुर्धरः ।
जटी श्रीमान्न च नृपो न च रक्तो न वा मुनिः ॥ ५२२ ॥
विपरीतोऽयमाचारो यद्वने स्त्रीसहायता ।
वेशश्च नानुरूपोऽयं यच्चापं यच्च वल्कलम् ॥ ५२३ ॥
इति पृष्टस्तया रामः स्वभावसरलाशयः ।
निजजन्मकथामूचे वनवासे च कारणम् ॥ ५२४ ॥
तच्छ्रुत्वा सावदत्कामबाणसंपातकातरा ।
दिग्दाहमिव कुर्वाणा दृक्पातैर्बभ्रुदारुणैः ॥ ५२५ ॥
अहं शूर्पनखा नाम खरदूषणयोः स्वसा ।
भ्रातरो मे दशग्रीवकुम्भकर्णविभीषणाः ॥ ५२६ ॥
निःसारां मन्दसंचारां निःसहामबलामिमाम् ।
मानुषीं त्यज संभोगे न यस्यां निर्दयोत्सवः ॥ ५२७ ॥
सेयं निर्माल्यमालेव त्यागमर्हति ते वधूः ।
हेमपद्ममयीं मालामिव कण्ठे कुरुष्व माम् ॥ ५२८ ॥
देशेष्वमर्त्यसेव्येषु रमस्व सहितो मया ।
गुल्फरज्जुरियं योषा त्यज्यतां धीमता त्वया ॥ ५२९ ॥
इति ब्रुवाणामसकृत्सस्मितो रघुनन्दनः ।
तामुवाच स्थितामग्रे दृश्यां निर्दिश्य लक्ष्मणम् ॥ ५३० ॥

१६