पृष्ठम्:रामायणमञ्जरी.pdf/१३१

पुटमेतत् सुपुष्टितम्
१२२
काव्यमाला ।


अयं सुमुखि मे भ्राता रतिशून्य इव स्सरः ।
युवाकृतदारविधिरिच्छति त्वादृशीं वधूम् ॥ ५३१ ॥
राघवेणेत्यभिहिते सा सौमित्रिमभापत ।
दिव्यसंभोगसुभगो भव वीर भजस्व माम् ॥ ५३२ ॥
सोऽब्रवीदस्य दासोऽहमार्यस्यारण्यचारिणः ।
अनेन रूपेण कथं दासपत्नी भविष्यसि ॥ ५३३ ॥
आर्यस्यैवोचिता सुभ्रु भार्या सौभाग्यभागिनी ।
भवती चारुसौन्दर्या विजयन्ती जगत्त्रये ॥ ५३४ ॥
निशम्यैतद्गता रामं तं त्यक्त्वा लक्ष्मणोन्मुखी ।
चक्रे स्मरानिलालोला सा दोलेव गतागतम् ॥ ५३५ ॥
ततो वैलक्ष्यमापन्ना सुचिरात्स्मरमोहिता ।
ज्ञात्वा तत्संगमे विघ्नं सीतामभ्याद्रवत्क्रुधा ॥ ५३६ ॥
काली करालवदना सा सीतां हन्तुमुद्यता ।
बभूवेन्दुकलालुब्धराहुच्छायानुकारिणी ॥ ५३७ ॥
तामाकृष्य रुषा रामः क्षणं लक्ष्मणमब्रवीत् ।
दुरन्तः परिहासोऽयं न हिंस्राः केलिभाजनम् ॥ ५३८ ॥
आशीविषैः परिष्वङ्गः पिशुनैर्गुह्यमन्त्रणम् ।
अवश्यं भयमादत्ते परिहासश्च दुर्जनैः ॥ ५३९ ॥
वज्राशनिविनिष्पेषनिर्घोषविषमस्वनैः ।
पश्यास्यास्तर्जनैरेव मैथिली मोहमागता ॥ ५४० ॥
इत्युक्तो रघुनाथेन लक्ष्मणस्तु भयाकुलः ।
चिच्छेद करवालेन राक्षस्याः कर्णनासिकम् ॥ ५४१ ॥
जलार्द्रभेरीगम्भीरभैरवस्वरराविणी ।
सदा पीतं वमन्तीव मुखेनासृग्जगाम सा ॥ ५४२ ॥


१. 'युवाप्यकृतदारत्वादिच्छति' ख.