पृष्ठम्:रामायणमञ्जरी.pdf/१३२

पुटमेतत् सुपुष्टितम्
१२३
रामायणमञ्जरी ।


नासिकारक्तसंसिक्तविस्रास्रस्रुतिनिर्झरा ।
गृहं भ्रातुः खरस्यैत्य सा स्ववृत्तान्तमभ्यधात् ॥ ५४३ ॥
इति शूर्पनखाविरूपणम् ॥ १८ ॥
खरः खरतराकोपः स्वसुराकर्ण्य निग्रहम् ।
दिदेश राघवौ हन्तुं चतुर्दश निशाचरात् ॥ ५४४ ॥
वने शूर्पनखादिष्टवर्त्मना ते प्रहारिणः ।
अभ्येत्य ददृशुः कान्तासखं काकुत्स्थमास्थितम् ॥ ५४५ ॥
रामोऽपि राक्षसान्दृष्ट्वा पुनः शूर्पनखाग्रगान् ।
आरोप्य लीलया चापं बभूव समरोन्मुखः ॥ ५४६ ॥
उत्सृष्टामथ तैः कोपाद्दीप्तायुधपरम्पराम् ।
विच्छेद विशिखैः क्षिप्रं राघवश्चित्रलाघवः ॥ ५४७ ॥
ततश्चतुर्दश शरान्संतप्तकनकोक्षितान् ।
प्राहिणोद्यैर्बभुः क्षिप्रं विद्युत्परिचिता इव ॥ ५४८ ॥
ते राक्षसान्विनिर्भिद्य स्पष्टान्विकटकङ्कटान् ।
विविशुर्वसुधां दीप्तास्तेषां जीवा इवोत्कटाः ॥ ५४९ ॥
ततो निपतितान्वीक्ष्य छिन्नपक्षानिवाचलान् ।
राक्षसान्राक्षसी भीत्या क्रन्दन्ती प्रययौ द्रुतम् ॥ ५५० ॥
खरोऽपि तद्गिरा ज्ञात्वा राघवाग्निपतङ्गताम् ।
यातान्निशाचरान्वीरान्संनद्धो निर्ययौ द्रुतम् ॥ ५५१ ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।
सेनाग्रे निर्ययुस्तस्य त्रिदशत्रासकारिणः ॥ ५५२ ॥
स तप्तकाञ्चनरथध्वजकङ्कटकार्मुकः ।
बभौ दावानलव्याप्तः संचारीव महीधरः ॥ ५५३ ॥
अथ राक्षससंभारात्कम्पमाने महीतले ।
दुर्निमित्तगणः प्रायाद्धोरविप्लवतुल्यताम् ॥ ५५४ ॥


१.'कारः' शा०. २. 'दिशः' ख. ३. 'त्कराम्' ख. ४, 'स्वयम्' ख.

५. 'महाचलः' ख. ६. 'संमर्द' ख; 'संरम्भा' शा०.