पृष्ठम्:रामायणमञ्जरी.pdf/१३३

पुटमेतत् सुपुष्टितम्
१२४
काव्यमाला ।


रक्षःसैन्यसमुद्धूतधूलिग्रस्ते नभस्तले ।
विन्यस्य लक्ष्मणे सीतां रामः कवचमादधे ॥ ५५५ ॥
आमुक्तहेमकवचः सज्जप्राज्यशरासनः ।
सुरद्विषां पुरस्तस्थौ स धूर्जटिरिवापरः ॥ ५५६ ॥
ततः क्षणेन रक्षोभिः पूरिते राघवाश्रमे ।
उदभूद्धोरगम्भीरः समराम्बरदुन्दुभिः ॥ ५५७ ॥
तेन शब्देन महता त्रस्ताः समृगपक्षिणः ।
दुद्रुवुस्तापसास्तूर्णमपुनर्वलिताननाः ॥ ५५८ ॥
ततस्ते राक्षसा दृष्ट्वा पुरतस्तेजसां निधिम् ।
राघवं कान्तमत्युग्रं तस्थुश्चित्रार्पिता इव ॥ ५५९ ॥
सैन्यं निश्चलमालोक्य खरः प्रोवाच दूषणम् ।
किमयं ध्वजिनीसङ्गः परसैन्यं न दृश्यते ॥ ५६० ॥
एतदालोक्यतां तावदित्युक्तस्तेन दूषणः ।
रथेन पृथुवेगेन सैन्यमध्याद्विनिर्ययौ ॥ ५६१ ॥
स दृष्ट्वा राममत्युग्रकोदण्डं स्थितमग्रतः ।
चण्डांशुमिव दुर्धर्षपरिवेषं जगत्क्षये ॥ ५६२ ॥
परावर्त्य रथं तूर्णमभ्येत्य खरमब्रवीत् ।
एष रामः स्थितो धन्वी रक्षसां गतिविघ्नकृत् ।
येनैषां स्थगितानीव चेतांसि वचनानि च ॥ ५६३ ॥
श्रुत्वेति क्रोधहविषा खरो वह्निर्ज्वलन्निव ।
अभ्याद्रवत्स्वयं रामं रथेन धननादिना ॥ ५६४ ॥
ततः क्षपाचराः सर्वे परिवार्य समन्ततः ।
अदृश्यं चक्रिरे रामं प्रदीप्तायुधवर्षिणः ॥ ५६५ ॥
तस्य निर्भिद्यमानस्य घोराभिः शस्त्रवृष्टिभिः ।
किंशुकाशोकसंकाशं शोणितेनाभवद्वपुः ॥ ५६६ ॥


१. 'परः सैन्यं विनश्यति' क. २. 'घनघोषेण' शा०.