पृष्ठम्:रामायणमञ्जरी.pdf/१३४

पुटमेतत् सुपुष्टितम्
१२५
रामायणमञ्जरी ।


ततः शितशरासारैर्निर्यद्भिः किरणोत्करैः ।
चण्डांशुरिव दुःप्रेक्ष्यः सोऽभवत्त्रिदशद्विषाम् ॥ ५६७ ॥
तेषां स्फुरत्प्रभापूरैः केयूरमणिकङ्कटैः ।
हेमदीप्तशिरस्त्राणां कुण्डलैर्हेममण्डितैः ॥ ५६८ ॥
भुजदण्डैः सकोदण्डैः सतोमरकरैः शरैः ।
मातङ्गैर्भिन्नसर्वाङ्गैश्छिन्नकायैर्महाहयैः ॥ ५६९ ॥
रथैरुन्मथितैश्छिन्नैश्छत्रैर्ध्वजगजैरपि ।
चकार मेदिनीं रामश्छन्नामद्भुतविक्रमः ॥ ५७० ॥
प्रभग्ने रक्षसां सैन्ये दूषणो मुनिदूषणः।
चकारादृश्यमभ्येत्य रामं निर्विवरैः शरैः ॥ ५७१ ॥
द्रुतशस्त्रशिलावर्षैर्दूषणाश्रमनिर्भरैः ।
राक्षसैश्छाद्यमानोऽसौ धैर्याद्रिर्न व्यकम्पत ॥ ५७२ ॥
जघान दूषणस्यास्य रथं रामः प्रमाथिनः ।
सोऽप्यस्मै प्राहिणोद्धोरं गदापरिघपट्टिशम् ॥ ५७३ ॥
ततश्चकर्त भल्लाभ्यां निर्जितारिव्रजौ भुजौ ।
रामो विरामः पापानां दूषणस्य सभूषणौ ॥ ५७४ ॥
स पपात पृथूरस्कः कृतबाहुर्द्रुमः सृजन् ।
उत्तिष्ठति पुनः किंस्विदिति कम्पमिव क्षितेः ॥ ५७५ ॥
दूषणे निहते घोरकोपदीप्ताः समाययुः ।
महाकपालः स्थूलाक्षः प्रमाथी चेति दानवाः ॥ ५७६ ॥
ते शूलपट्टिशप्रासवर्षिणस्तेजसां निधेः ।
रामस्य पुरतश्चक्रुर्मेघलीलां रवेरिव ॥ ५७७ ॥
ततो राघवदोर्दण्डकृष्टकोदण्डनिर्गता ।
बाणपङ्क्तिरभूत्तेषां वीथीव यमसद्मनि ॥ ५७८ ॥
सायकानामथ शतैः शतानि पिशिताशिनाम् ।
सहस्त्रैश्च सहस्राणि जघान रघुनन्दनः ॥ ५७९ ॥


१. 'क्रूर' ख.