पृष्ठम्:रामायणमञ्जरी.pdf/१३५

पुटमेतत् सुपुष्टितम्
१२६
काव्यमाला ।


क्षयक्षणे राक्षसास्तं प्राप्तमेकमनेकताम् ।
ददृशुर्विश्वसंहारविश्वरूपमिवान्तकम् ॥ ५८० ॥
ततः स्वयं समायातो योद्धुं क्रोधोद्धतं खरम् ।
निवार्य त्रिशिरा नाम राक्षसो राममद्रवत् ॥ ५८१ ॥
स ललाटे त्रिभिर्बाणैदीप्तैर्विव्याध राघवम् ।
ये प्रभाजटिलास्तस्य हेममालातुलां ययुः ॥ ५८२ ॥
ततो मनोरथमिव च्छित्त्वा तस्य रथं शरैः ।
स शिरांस्यहरत्त्रीणि शिखराणि गिरेरिव ॥ ५८३ ॥
हते त्रिशिरसि क्रूरे रामेणाश्चर्यकारिणा ।
भग्नेषु युधि रक्षःसु स्वयमभ्याद्रवत्खरः ॥ ५८४ ॥
ततः खरशरासारापूरिते भुवनोदरे ।
बभूव सर्वभूतानां संहाररजनीभ्रमः ॥ ५८५ ॥
रामबाणहताग्राणां तेषां राक्षसपत्त्रिणाम् ।
ज्यालाभिर्विद्युदुद्दाममालाङ्कमभवन्नभः ॥ ५८६ ॥
ततश्चकर्त्त रामस्य मुष्टेश्चापं खरः शरैः ।
रत्नकाञ्चनचित्रं च कवचं विकचप्रभम् ॥ ५८७ ॥
अथान्यं वैष्णवं चापमादाय रघुनन्दनः ।
हेमप्रभापरिकरं ध्वजं चिच्छेद रक्षसः ॥ ५८८ ॥
ध्वजस्य पततस्तस्य स्फुटैर्मणिकणाश्रुभिः ।
रक्षःश्रीः प्ररुरोदेव नववैरिपराभवात् ॥ ५८९ ॥
दीप्ते निपतिते तस्य ध्वजे साक्षादिवौजसि ।
वेश्येव कृपणस्याभूद्वीर्यसाम्यात्पराङ्मुखी ॥ ५९० ॥
ततः खरस्यातिखरैः शरैर्दशरथात्मजः ।
दारितः प्रोन्ममाथास्य रथं सारथिकार्मुकम् ॥ ५९१ ॥
स हताश्वं समुत्सृज्य स्यन्दनं शरविक्षतः ।
भुवि तस्थौ गदापाणिर्निहताशेयसैनिकः ॥ ५९२ ॥


१. 'त्रिशिखो' शा०. २. 'संहारे' शा० ३. 'मुष्टौ' ख. ४, 'कनक' ख.