पृष्ठम्:रामायणमञ्जरी.pdf/१३८

पुटमेतत् सुपुष्टितम्
१२९
रामायणमञ्जरी ।


शेषभोगानुकारेण हारेण हिमवर्चसा ।
स्कन्धोल्लासितकैलासनिर्झरेणेव शोभितम् ॥ ६१८॥
स्वर्वधूचामराधूतकिंचित्स्रस्तसितांशुकम् ।
वेलापवनपर्यस्तफेनकूटमिवाम्बुधिम् ॥ ६१९ ॥
अहंकारस्य महतो वेधसेव विनिर्मितम् ।
निवासभवनं भूरि भुजस्तम्भविभूषणम् ॥ ६२० ॥
बभ्रुभ्रूश्मश्रुकिरणप्रदीप्ताननकाननम् ।
क्षयाभ्रमिव संवर्तदहनोद्गारदारुणम् ॥ ६२१ ॥
वक्त्रं स्कन्धान्तरासक्ततमःसंघट्टपाटलैः ।
स्पष्टदंष्ट्रांशुपटलैः समुद्घाटितदिक्तटम् ॥ १२२ ॥
मण्डितं कुण्डलैः कर्णदोलारचितताण्डवैः ।
कल्पान्तमिव मार्तण्डमण्डलैर्बहुभिर्वृतम् ॥ ६२३ ॥
विचित्ररत्नमुकुटैराक्षिपन्तं गिरेः प्रभाम् ।
तुङ्गशृङ्गवनोत्सङ्गनृत्यश्चित्रशिखण्डिनः ॥ ६२४ ॥
अभिभूतेन्दुमहसा यशसा त्रिदिवौकसाम् ।
भयपुञ्जे कृतेनेव च्छत्त्रव्याजेन सेवितम् ॥ ६२५ ॥
ग्रस्तलोकेश्वरैश्वर्यैरुन्मूलितसुरोत्सवैः ।
आसनैरायुधैर्दीप्तं विद्युद्भिरिच तोयदम् ॥ ६२६ ॥
विधत्ते जययात्रासु यस्य प्रारम्भदुन्दुभिः ।
त्रस्तप्रियापरिष्वङ्गसंविभागं दिवौकसाम् ॥ ६२७ ॥
यद्भयान्निभृतं भानुरुदेत्यब्जस्मितावधि ।
चरन्ति च शनैर्वल्लीविलासावधयोऽनिलाः ॥ ६२८ ॥
रणे विमानितारातिर्यशस्त्रैलोक्यपुष्पकम् ।
यो जहार कुवेरस्य विमानाग्र्यं च पुष्पकम् ॥ ६२९ ॥


१. 'शिखरेणेव' ख. २. 'सेवितम्' ख, शा०. ३. 'विलास' ख. ४. 'विभूषितम्' ख. ५. 'संरक्त' ख. १७