पृष्ठम्:रामायणमञ्जरी.pdf/१३९

पुटमेतत् सुपुष्टितम्
१३०
काव्यमाला ।


जयाय सर्वजगतां हुत्वा वह्नौ शिरांसि यः ।
सुरासुरप्रतापाग्निग्रासशिक्षामिवाकरोत् ॥ ६३० ॥
यत्सैनिककरालूनकल्पपादपपल्लवाः ।
क्रन्दन्तीव भयोद्भ्रान्तैर्भमरैर्नन्दनश्रियः ॥ ६३१ ॥
ऐरावणोऽपि यद्भीत्या भृङ्गानां दानवर्जितः ।
कदर्य इव भृत्यानां यातो निरुपजीव्यताम् ॥ ६३२ ॥
सुन्दरीं सुन्दरी नाम तक्षकस्य प्रियां प्रियाम् ।
यो जहार विषाहारं तं दृष्ट्वा विरहादिव ॥ ६३३ ॥
दृष्ट्वा तमूचे सोच्छ्वासा छिन्ननासा निशाचरी ।
जननी दुर्निमित्तानाममङ्गलकुटुम्बिनी ॥ ६३४ ॥
अहो बत दुरारोहं शृङ्गमासाद्य संपदाम् ।
आसन्नदुःसहापातः प्रसुप्तो न विवुध्यसे ॥ ६३५ ॥
भूपतिं विभवक्षीबमविज्ञातक्षयोदयम् ।
ग्राम्यं विदग्धनारीव न संपद्भजते चिरम् ॥ ६३६ ॥
कार्यकालमतिक्रान्तं सुखासक्तो न वेत्ति यः ।
अक्षयाः संक्षयमुखे हुतास्तेन विभूतयः ॥ ६३७ ॥
दुर्दर्शनं व्यसनिनं त्यजन्ति नृपतिं प्रजाः ।
पतिं वृद्धमिवेर्ष्यालुं कामिन्यो नवयौवनाः ॥ ६३८ ॥
सर्वत्रानुप्तचारस्य प्रजाकार्याण्यपश्यतः ।
अन्धस्य द्यूतगोष्ठीव स्ववशा श्रीर्न भूपतेः ॥ ६३९ ॥
कवीनां प्रतिभा चक्षुः शास्त्रं चक्षुर्विपश्चिताम् ।
ज्ञानं चक्षुर्महर्षीणां चराश्चक्षुर्महीभृताम् ॥ ६४० ॥
क्लीबो यथा गृहाचारं न वेत्ति गृहिणीजितः ।
राष्ट्रवृत्तिं न जानीते रतिवश्यस्तथा नृपः ॥ ६४१ ॥
अहो बत परां कोटिमारूढोऽसि प्रमादिनः ।
विभवस्तव विभ्रष्टो दीर्यते यशसा सह ॥ ६४२ ॥