पृष्ठम्:रामायणमञ्जरी.pdf/१४०

पुटमेतत् सुपुष्टितम्
१३१
रामायणमञ्जरी ।


कथं नाम न जानीषे घोरं व्यसनमागतम् ।
आसन्नक्रकचाग्रेण लूनेयं श्रीलता तव ॥ ६४३ ॥
राक्षसाः खरमुख्यास्ते रामेण रणशालिना ।
नीताः सर्वे जनस्थाने दयिता बाष्पशेषताम् ॥ ६४४ ॥
अनुद्योगहतारम्भा यरवेयं प्रभविष्णुता ।
प्रयान्ति प्रसभं तस्य तेजांसि च यशांसि च ॥ ६४५ ॥
मदमन्थरसंचारा विलासालसदृष्टयः ।
दीपा इव न पश्यन्ति नृपाः स्वमपि विग्रहम् ॥ ६४६ ॥
लोकपालान्समुत्पाट्य प्राप्य त्रैलोक्यधीरताम् ।
चित्रं हतान्मनुष्येण नानुजान्वेत्सि सानुगः ॥ ६४७ ॥
अल्पप्रदो बहुक्रोधः कृतवैरो निरुद्यमः ।
प्राप्नोत्यवज्ञां नृपतिर्वेश्यारागीव निर्धनः ॥ ६४८ ॥
छिनत्त्येवायसं शस्त्रमद्रव्यं विषयं विषम् ।
नीचावसानप्रभवो मन्युर्मर्माणि मानिनाम् ॥ ६४९ ॥
जितक्रोधस्य वीरस्य बन्दीकृतसुरस्त्रियः ।
तवाप्यभग्नमानस्य मानुषेण पराभवः ॥ ६५० ॥
लक्ष्मणेन सह भ्रात्रा रामो दशरथात्मजः ।
रक्षसां दण्डकारण्ये मन्ये कालः समुत्थितः ॥ ६५१ ॥
सीता नाम वरारोहा दृष्टा तस्य मया वधूः ।
सोऽपि यद्वदनेनेन्दुः प्रयातः पुनरुक्तताम् ॥ ६५२ ॥
सा कान्तिरपरिम्लाना ते गुणा गणनोचिताः ।
नवं च तद्वपुस्तस्याः स्त्रीणामपि विलोभनम् ॥ ६५३ ॥
त्वदर्थं हर्तुमिच्छामि यावत्तां चारुलोचनाम् ।
रामानुजादयं तावन्मया प्राप्तः पराभवः ॥ ६५४ ॥
इति रावणतर्जनम् ॥ २० ॥
इति शूर्पनखावाक्यमाकर्ण्य दशकंधरः ।
भ्रूभङ्गैर्दशभिः कुर्वन्कम्पलोला दिशो दश ॥ ६५५ ॥