पृष्ठम्:रामायणमञ्जरी.pdf/१४१

पुटमेतत् सुपुष्टितम्
१३२
काव्यमाला ।


कोऽयं रामः कथं रामः किंधर्मः किंपराक्रमः ।
इति कोपाकुलालापनिर्घोषैः पूरयन्सभाम् ॥ ६५६ ॥
जन्म कर्म च रामस्य श्रुत्वा स्वस्रा निवेदितम् ।
विषादामर्षसंघर्षस्वेदार्द्रवदनः श्वसन् ॥ ६५७ ॥
ध्यात्वा मुहूर्तमाकम्पवक्त्रव्यावर्तिकुण्डलः ।
विसृज्य सचिवान्सर्वान्रथशालां ययौ स्वयम् ॥ ६५८ ॥
स तत्र मेघनिर्घोषैः पिशाचचदनैः स्वरैः ।
युक्तं समारुह्य रथं क्षणाद्व्योम व्यगाहत ॥ ६५९ ॥
स व्रजन्रोषदीप्तोऽपि सीतामेव व्यचिन्तयत् ।
मृत्युस्थानेऽपि मूर्खाणां करोति मदनः पदम् ॥ ६६० ॥
रथेन हेमदीप्तेन व्रजतस्तस्य खे वपुः ।
बभौ कनककूटस्य नीलाद्रेरिव सर्वतः ॥ ६६१ ॥
स मन्दमारुतान्दोलिचन्दनागुरुपल्लवे ।
तमालतालहिन्तालश्यामले जलधेस्तटे ॥ ६६२ ॥
ददर्श दिव्यं न्यग्रोधं सुचन्द्रं नाम विश्रुतम् ।
शतयोजनदीर्घाभिर्हेमशाखाभिरुज्ज्वलम् ॥ ६६३ ॥
तस्य शाखाग्रदेशेषु वालखिल्या मरीचिषाः ।
वैखानसाश्च मुनयश्चरन्ति विपुलं तपः ॥ ६६४ ॥
अमृताहरणे यस्मिन्नादाय गजकच्छपौ ।
तार्क्ष्यः कनकशैलाभः शाखायां समुपाविशत् ॥ ६६५ ॥
चरणाक्रान्तिभग्नां तां शाखां मुनिजनावृताम् ।
तद्रक्षायै समादाय ययौ व्योम्ना खगेश्वरः ॥ ६६६ ॥
निषादविषयं हत्वा तया विपुलविग्रहः ।
गत्वा जहार पीयूषं निर्जितत्रिदिवेश्वरम् ॥ ६६७ ॥
तं दिव्यं तरुमारुह्य ददर्श दशकंधरः ।
पारेसमुद्रमुन्निद्रतरुरम्यं तपोवनम् ॥ ६६८ ॥


१. 'रूपः' शा०. २. 'क्रोध' शा०. ३. विचिन्तयन्' शा०. ४. 'नीलाभ्रै' शा०.