पृष्ठम्:रामायणमञ्जरी.pdf/१४२

पुटमेतत् सुपुष्टितम्
१३३
रामायणमञ्जरी ।


अचिरात्संस्थितं तत्र कृष्णाजिनजटाधरम् ।
पुराणसचिवं प्राप मारीचं रजनीचरम् ॥ ६६९ ॥
पूजितस्तेन विनयात्तमुवाच दशाननः ।
कुर्वन्निगरिगुहागर्भं गर्जत्पर्जन्यविभ्रमम् ॥ ६७० ॥
सचिवो धीमतां धुर्यः कार्याणां प्रथमा गतिः ।
भवानेव सदास्माकं श्रीरक्षापरिखाचलः ॥ ६७१ ॥
अभग्नप्रणयो नित्यं त्रैलोक्यविजयोत्सवे ।
त्वद्बुद्धिविभवः पूर्वं पश्चान्मम पराक्रमः ॥ ६७२ ॥
तुल्यं द्वावेव मे यातौ जगज्जयसहायताम् ।
मन्त्रश्च मायागम्भीरः खड्गव्यग्रश्च मे भुजः ॥ ६७३ ॥
ममायं श्रूयतामद्य यदपूर्वः पराभवः ।
लज्जन्ते यत्कथामात्रे मन्मुखानि परस्परम् ॥ ६७४ ॥
भ्रातरो मे महाशूरा जन्मस्थाने धृताः पुरा ।
खरमुख्या हतास्तेऽद्य मनुष्येण पदातिना ॥ ६७५ ॥
चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम् ।
हतानि मम रामेण भगिनी च विरूपिता ॥ ६७६ ॥
कान्ता तस्यास्ति दयिता सीतानाम सितस्मिता ।
लावण्यबिन्दवो यस्याः पुपुषुः कमलेन्दवः ॥ ६७७ ॥
मायामृगतनुं कृत्वा तां पुरो रत्नविग्रहम् ।
हत्वा सलक्ष्मणं रामं हन्तुमिच्छामि तामहम् ॥ ६७८ ॥
ततस्तया स रहितः क्रियाहीन इव द्विजः ।
लुप्तशक्तिर्मम परं सुखच्छेद्यो भविष्यति ॥ ६७९ ॥
श्रुत्वेति वक्रं मारीचः क्षपाचरपतेर्वचः ।
तमूचे त्रासशुष्कास्यः कम्पमानः कृताञ्जलिः ॥ ६८० ॥
बत लङ्कापते कोऽयं जातस्ते मतिविप्लवः ।
अन्तं यास्यति यो मन्ये विभवस्य कुलस्य च ॥ ६८१ ॥


१. 'जन्मापूर्वः' शा०.