पृष्ठम्:रामायणमञ्जरी.pdf/१४३

पुटमेतत् सुपुष्टितम्
१३४
काव्यमाला ।


धूर्ताः प्रियं वदन्त्येव मूर्खाः शृण्वन्ति च प्रियम् ।
न वदन्ति न शृण्वन्ति सर्वथा साधवोऽप्रियम् ॥ ६८२ ॥
ऐश्वर्यपद्ममधुपा धूर्ता मधुरवादिनः ।
विशन्त्येवाशयं राज्ञामवमानपराङ्मुखाः ॥ ६८३ ॥
धूर्तानां मधुरा वाणी मधुरा वल्लभा यथा ।
न तथेन्दुर्न मदिरा न मृगाक्षी न वल्लकी ॥ ६८४ ॥
हितोपदेशविद्वेषकलुषाभिमुखी मतिः ।
जनस्य जायते जातु विनाशायोद्यते विधौ ॥ ६८५ ॥
अकार्यप्रणयी घोरो राज्ञां प्रायेण दुर्नयः ।
महतो राज्यवृक्षस्य मूलघाती परश्वधः ॥ ६८६ ॥
देहिनां नूनमासन्ने दुःसहव्यसनानले ।
प्रथमं मोहधूमेन मलिनीक्रियते मतिः ॥ ६८७ ॥
समदप्रमदापाङ्गभङ्गभङ्गुरविभ्रमाः ।
सत्यं विभूतयो राज्ञां मतिमोहपिशाचिकाः ॥ ६८८ ॥
म्लायन्ति क्षिप्रभोगेन निःसारविरसान्तराः ।
वेश्या चित्रद्युतिर्माला श्रीश्च दूरमनोहरा ॥ ६८९ ॥
कष्टं केनोपदिष्टस्ते दुःसहो मोहविभ्रमः ।
घोरस्ते संपदां योऽयं क्षयहेतुरिवोत्थितः ॥ ६९० ॥
अहो बत न जानीषे रामस्याद्भुतकर्मणः ।
चारहीनः प्रमादी च यशस्त्रैलोक्यविश्रुतम् ॥ ६९१ ॥
विश्वामित्रमखत्राणे स शरं प्राहिणोन्मयि ।
क्षिप्तोऽहं जलधेः पारे यत्पक्षपवनैः क्षणात् ॥ ६९२ ॥
कथं नु दयितां तस्य सीतामग्निशिखामिव ।
शिशुदंष्ट्रामिव हरेर्मोहादादातुमिच्छसि ॥ ६९३ ॥
चूडामणिमिवादाय शिरसा शासनं पितुः ।
चरत्यरण्ये काकुत्स्थः क्षपयन्घोरराक्षसान् ॥ ६९४ ॥