पृष्ठम्:रामायणमञ्जरी.pdf/१४४

पुटमेतत् सुपुष्टितम्
१३५
रामायणमञ्जरी ।


दुरन्तमृत्युचरणे मैथिलीहरणे मया ।
नवातङ्कहतां लङ्कां विधवामिव मा कृथाः ॥ ६९५ ॥
ये मदत्यक्तमर्यादा न शृण्वन्ति हितं वचः ।
तेषां मृत्युं प्रयातानां न पुनः संगमः श्रिया ॥ ६९६ ॥
मुनिमांसाशनक्रूरो राक्षसाभ्यामहं सह ।
कदाचिद्दण्डकारण्ये संप्राप्तो राघवाश्रमम् ॥ ६९७ ॥
स मां सानुगमालोक्य मुनिरक्षाकृतक्षणः ।
धनुराकृष्य दीप्ताग्नां प्राहिणोत्सायकत्रयीम् ॥ ६९८ ॥
त्रस्तो जवादहं मुक्तस्तौ तु रात्रिंचरौ हतौ ।
आयुःशेषे कृतान्तोऽपि नूनं याति वयस्यताम् ॥ ६९९ ॥
ततः प्रभृति संन्यस्तशस्त्रोऽयं त्यक्तकिल्विषः ।
त्रासात्तापसतां यातो वैराग्यं रक्षसां कुतः ॥ ७०० ॥
तपोवनेऽस्मिन्पश्यामि सजटावल्कलान्भयात् ।
वृक्षानपि पृथुस्कन्धान्राघवान्सशिलीमुखान् ॥ ७०१ ॥
दिवि दिक्षु क्षितौ स्वप्ने सजने विजने पुनः ।
सत्यं रामसहस्राणि भयात्पश्यामि तन्मयः ॥ ७०२ ॥
राज्यं रात्रिश्च रामा च रागो राजाथ राशयः ।
रामनामाङ्कवर्णाङ्कास्त्रासं संजनयन्ति मे ॥ ७०३ ॥
त्याज्या यदि न ते लक्ष्मीर्जीवितं यदि वल्लभम् ।
तन्मुञ्च रामवैरेच्छां प्रमाणं यदि मद्वचः ॥ ७०४ ॥
इति नीतिमतः पथ्यं मारीचस्येति तद्वचः ।
श्रुत्वा बभाषे लङ्केशः किंचिदागतविक्रियः ॥ ७०५ ॥
अहो बतातिवीरस्य तवाप्यसदृशं वचः ।
श्रूयते कालजीर्णं वा सर्वमेव विपर्ययात् ॥ ७०६ ॥
प्रतिपक्षपदे मर्त्यस्तत्रापि नयचिन्तनम् ।
किं किं लज्जार्हमस्माभिः सीतालोभेन न श्रुतम् ॥ ७०७ ॥


१. 'तेषामुष्णीसहासिन्या' ख; 'तेषामुत्रस्य यातानां शा० २. 'नामाद्यवर्णा' ख,