पृष्ठम्:रामायणमञ्जरी.pdf/१४५

पुटमेतत् सुपुष्टितम्
१३६
काव्यमाला ।


अधुनैवंविधं वृद्ध न वक्तव्यं त्वया वचः ।
कर्तव्यमेव तु पुनर्भक्तियोगान्मयेप्सितम् ॥ ७०८ ॥
यदि रामशरापातसंपाताद्भयमीक्षसे ।
प्रियं कार्यमकृत्वा मे जीविताशापि ते कुतः ॥ ७०९ ॥
तस्मात्कुरुष्वाभिमतं मम प्रणयिनो विभोः ।
स्वामिसंमानपाथेयं धर्म्यं च निधनं सताम् ॥ ७१० ॥
श्रुत्वेति दशकण्ठस्य मारीचः कठिनं वचः ।
उवाच निःश्वसन्ध्यात्वा दैवस्याज्ञामकुण्ठिताम् ॥ ७११ ॥
अहो बत दुरन्तोऽयं दुःसहस्तव दुर्ग्रहः ।
यः शमं यास्यति व्यक्तं सहैश्वर्यसुखादिभिः ॥ ७१२ ॥
प्रत्यासन्नविनाशानां हितविद्वेषकारिणाम् ।
आतुराणामिवापथ्ये प्रायेणाभ्यधिका रुचिः ॥ ७१३ ॥
स्वच्छन्दकारिणो धातुः शासनान्न्यायवर्त्मनः ।
भ्रष्टं कः क्षमते धर्तुं श्वभ्रादिव महागजम् ॥ ७१४ ॥
सुचिराद्बत शत्रूणां फलितस्ते मनोरथः ।
ऐश्वर्यतुङ्गशृङ्गाग्रात्स्वयं निपतितोऽसि यत् ॥ ७१५ ॥
रामोऽभिरामचरितो विरामः शत्रुसंपदाम् ।
गुणारामः कथं नाम चरामस्तस्य विप्रियम् ॥ ७१६ ॥
मोहादहृदयस्यान्तर्यत्नन्यस्तं हितामृतम् ।
न राहोरिव निःशेष मुहूर्तमपि तिष्ठति ॥ ७१७ ॥
तस्मात्प्राणपणेनाद्य करोम्यभिमतं तव ।
प्रत्युपस्थितनाशानां नाशायैव हि संगमः ॥ ७१८ ॥
इतो रघुपतेर्बाणस्त्वमितो मृत्युचोदितः ।
किं करोमि त्वदर्थं मेऽवरं रामाद्वधो वरः ॥ ७१९ ॥
शृणु चेदं समुत्पाद्य वैरं रामेण धन्विना ।
त्रिदिवे भुवि पाताले न ते स्थानं भविष्यति ॥ ७२० ॥


१. 'नः प्रभोः' क.