पृष्ठम्:रामायणमञ्जरी.pdf/१४६

पुटमेतत् सुपुष्टितम्
१३७
रामायणमञ्जरी ।


करोमीति वचः श्रुत्वा मारीचस्य दशाननः ।
शतकर्ण इव क्षिप्रं कुम्भकर्णाग्रजोऽभवत् ॥ ७२१ ॥
इति मारीचवाक्यम् ॥ २१ ॥
ततः स्यन्दनमारोप्य मारीचं राक्षसेश्वरः ।
निजव्यसनविस्तीर्णं विवेश विवशो वनम् ॥ ७२२ ॥
दण्डकारण्यमासाद्य तालतालीनिरन्तरम् ।
पुंनागबकुलाशोककर्णिकारवनोज्ज्वलम् ॥ ७२३ ॥
निषण्णनिर्भयमृगाकीर्णकान्ततपोवनम् ।
फुल्लवल्लीवितानाग्रगुञ्जन्मञ्जुकपिञ्जलम् ॥ ७२४ ॥
निर्यन्निर्झरझाङ्कारश्रुतिमन्थरकुञ्जरम् ।
संसर्पत्फेनपटलीदुकूलधवलापगम् ॥ ७२५ ॥
संचरद्दिव्यललनाचरणाङ्कितसैकतम् ।
मुनिकन्यावलिन्यग्रपुष्पनीवारपल्लवम् ॥ ७२६ ॥
वराहमहिषश्यामं समेघौघमिवाम्बरम् ।
साट्टहासमिव स्फारिस्फुरत्केसरिकेसरम् ॥ ७२७ ॥
जटालमिव संचारिचमरीचारुचामरम् ।
बहुनेत्रमिवालोलशिखण्डिकृतताण्डवम् ॥ ७२८ ॥
सरोमाञ्चमिवोदञ्चन्नवशष्पमुखाङ्कुरम् ।
जातस्वेदमिवोन्मीलदवश्यायपयःकणम् ॥ ७२९ ॥
सनिःश्वासमिव स्फूर्जत्कुसुमामोदमारुतम् ।
साकम्पमिव सावेगविहङ्गाघूर्णितद्रुमम् ॥ ७३० ॥
प्रहृष्टमिच सूर्यांशुविकसन्नलिनीवनम् ।
नवोन्मादमिवोत्तुङ्गप्लवङ्गवलयाकुलम् ॥ ७३१ ॥
उद्वीक्ष्य कुसुमोद्भूतरेणुप्रावरणं वनम् ।
ऊचे क्षपाचरपतिः मारीचं प्रणयानतः ॥ ७३२ ॥
अयं स सीताललितालोकनामृतनिर्झरः ।
धाम कामस्य मारीच रुचिरो राघवाश्रमः ॥ ७३३ ॥

१८