पृष्ठम्:रामायणमञ्जरी.pdf/१४७

पुटमेतत् सुपुष्टितम्
१३८
काव्यमाला ।


भिन्नेन्द्रनीलसच्छायनिबिडैः कदलीवनैः ।
विभात्येषा शुकश्यामकञ्चुकीवाश्रमस्थली ॥ ७३४ ॥
अत्र सा मन्मथमही मैथिली पृथुलोचना ।
व्यक्तं वसति वैलक्ष्यकारिणी हारिणी दृशाम् ॥ ७३५ ॥
अन्तर्हितो भवन्क्षिप्रं सिद्ध्यै मायामहोदधेः ।
इत्युक्तो दशकण्ठेन मारीचः प्रययौ पुरः ॥ ७३६ ॥
सोऽभवद्रत्नहरिणः कचस्काञ्चनमौक्तिकः ।
समस्तकौतुकवासो रसो मूर्त इवाद्भुतः ॥ ७३७ ॥
प्रवालशृङ्गो रत्नाभः स बभौ मौक्तिकाङ्कितः ।
सफेनमणिकल्लोलः संचारीव महोदधिः ॥ ७३८ ॥
रत्नान्युच्चित्य विहितः सजीवो रावणाज्ञया ।
हस्तोपायनसारङ्ग इव रोहिणभूभृताम् ॥ ७३९ ॥
गर्भवासे सुधाम्भोधौ संक्रान्तमणिमौक्तिकः ।
च्युतोऽङ्कादिव चन्द्रस्य दशग्रीवभयान्मृगः ॥ ७४० ॥
चतुरश्चारुसंचारी संचरन्नाश्रमे पुनः ।
ययौ सितासिताताम्रो वनलक्ष्मीकटाक्षताम् ॥ ७४१ ॥
कुसुमावचयासक्ता मैथिली तं व्यलोकयत् ।
संसारवैचित्र्यकृतो विधातुरिव वर्णकम् ॥ ७४२ ॥
निर्वर्ण्य तमभूत्सीता क्षिप्रमाश्चर्यनिश्चला ।
वस्तु सातिशयं कस्य न मुष्णाति हठान्मनः ॥ ७४३ ॥
विस्मिता राममभ्येत्य सा बभाषे सितस्मिता ।
हसन्ती पुष्पवल्लीनां भृङ्गान्वदनसौरभैः ॥ ७४४ ॥
आर्यपुत्र विचित्रोऽयं कनकाङ्गः कुरङ्गकः ।
करोति नयनानन्दं मणिमद्विन्दुसुन्दरः ॥ ७४५ ॥
आस्तीर्णमासनं कान्तमस्य चित्रेण चर्मणा ।
उचितं त्वत्सनाथायाः शयनं च ममेप्सितम् ॥ ७४६ ॥