पृष्ठम्:रामायणमञ्जरी.pdf/१४८

पुटमेतत् सुपुष्टितम्
१३९
रामायणमञ्जरी ।


इति सीतावचः श्रुत्वा दृष्ट्वा हेममयं मृगम् ।
उवाच रामः सौमित्त्रिं स्मितधौताधरद्युतिः ॥ ७४७ ॥
पश्य लक्ष्मण चित्राङ्गः सारङ्गो रत्नभूतिभिः ।
करोति त्वचि लुब्धाया जानक्याः कौतुकोत्सवम् ॥ ७४८ ॥
जृम्भमाणस्य पश्यास्य पद्मरागमयीमिव ।
जिह्वां दशनमुक्तालीमध्यनायकतां गताम् ॥ ७४९ ॥
चतुर्भिविद्रुममयैः शृङ्गः कुटिलकोटिभिः ।
कीर्णांशुभिः करोत्येष दिशः पल्लविता इव ॥ ७९० ॥
एषोऽहमस्य पदवीं व्रजाम्याकृष्टकार्मुकः ।
भवता त्वप्रमत्तेन रक्ष्या जनकनन्दिनी ॥ ७५१ ॥
इत्युक्त्वा चापमाकृष्य रामः सारङ्गमाद्रवत् ।
तूर्णं व्रजन्तं वेगेन मनोरथमिवात्मनः ॥ ७५२ ॥
इति मृगदर्शनम् ॥ २२ ॥
क्व दृष्टो हेमहरिणः का स्पृहा तस्य चर्मणि ।
प्रायेणादीयते मोहः कर्मणा महतामपि ॥ ७५३ ॥
क्वचिदन्तर्हितं क्षिप्रं क्वचित्प्रकटविग्रहः ।
मेघपुञ्जावृते व्योम्नि शशीव स ययौ मृगः ॥ ७५४ ॥
जगाम रामस्तेनाशु कृष्टो विस्मयकारिणा ।
चित्रमायाप्रसङ्गेन संसारेणेव सक्तधीः ॥ ७५५ ॥
तस्मै मुमोच काकुत्स्थः सायकं ब्रह्मनिर्मितम् ।
प्राग्भिन्नहृदयो येन मृगोऽभूत्क्षणदाचरः ॥ ७५६ ॥
तालमात्रं समुत्प्लुत्य स पपात शराहतः ।
दंष्ट्राकरालवक्राग्रनिर्यद्रुधिरनिर्झरः ॥ ७५७ ॥
मायया स समालम्ब्य रामस्य सदृशं वरम् ।
हा लक्ष्मण हतोऽस्मीति चुक्रोश करुणस्वरम् ॥ ७५८ ॥


१. 'भङ्गिभिः' शा०. २. 'प्राप्य' ख; 'मध्ये' स्यात्.