पृष्ठम्:रामायणमञ्जरी.pdf/१४९

पुटमेतत् सुपुष्टितम्
१४०
काव्यमाला ।


भ्रातुराक्रन्दनं श्रुत्वा लक्ष्मणो नूनमेष्यति ।
रावणस्तद्विरहितामवाप्स्यति स: मैथिलीम् ॥ ७५९ ॥
इति ध्यात्वा विनद्योच्चैर्लक्ष्मणेत्याकुलेन्द्रियः ।
प्राणाँस्तत्याज मारीचो न च भक्तिं निजप्रभोः ॥ ७६०॥
इति मारीचवधः ॥ २३ ॥
रामस्तं निहतं दृष्ट्वा निशाचरमशङ्कतः ।
पूर्वं कथयतिः प्रायो मनः पुंसः शुभाशुभम् ॥ ७६१ ॥
अदूरान्मैथिली श्रुत्वा पत्युरार्तस्वरं सती ।
रक्षःपराभवत्रस्ता तूर्णं लक्ष्मणमभ्यधात् ॥ ७६२ ॥
गच्छ जानीहिः सौमित्त्रे मित्त्रं भ्रातरमागतम् ।
रक्षसां बहुमायानां वीरं निपतितं मुखे ॥ ७६३ ॥
स ते गुरुः सखा बन्धुः प्रियाः प्राणा बहिश्चराः ।
अरण्ये निःसहायोऽस्मिन्नार्हत्यरिपराभवम् ॥ ७६४ ॥
वचः श्रुत्वेति जानक्याः सौमित्त्रिर्धैर्यसागरः ।
तामूचे मा कृथाः शङ्कां मिथ्यैवार्यपराक्रमे ॥ ७६५ ॥
रणेष्वभिमुखस्तस्य न जातोऽद्यापि किं तु ते ।
ललनासुलभं स्नेहवैक्लव्यं जृम्भतेतराम् ॥ ७६६ ॥
नूनं रामं न जानीषे भर्तुर्विक्रममूर्जितम् ।
त्रायस्वेति कथं भ्रातुस्तस्य वक्त्रे वचः स्फुरेत् ॥ ७६७ ॥
व्रजामि कथमार्येण कृष्णसारानुकारिणा ।
धृतोऽहं तव रक्षायै राक्षसा हि वहुच्छलाः ॥ ७६८ ॥
लक्ष्मणेनेत्यभिहिते निशम्य जनकात्मजा ।
ऊचे त्रासाद्धि दैत्यानां कोपस्य च वशं गता ॥ ७६९ ॥
अभग्नविक्रमस्यापि निश्चितौ न जयाजयौ ।
निगीर्णः किं न वृत्रेण देवो वज्रधरः पुरा ॥ ७७० ॥
भ्रातुराक्रन्दनं श्रुत्वा कथं निःसंभ्रमो भवान् ।