पृष्ठम्:रामायणमञ्जरी.pdf/१५०

पुटमेतत् सुपुष्टितम्
१४१
रामायणमञ्जरी ।


भ्रातरः शत्रवो नूनं पुंसामेकार्थभागिनः ॥ ७७१ ॥
स्वजनाद्भयमस्तीति तत्त्वज्ञाः सत्यमूचिरे ।
क्षयक्षणेषु जागर्ति नः विज्ञातान्तरः परः ॥ ७७२ ॥
क एवं नाम जानीते मिथ्याप्रणययन्त्रितः ।
यद्भ्रातापिः प्रियो भ्रातुर्विनिपातं प्रतीक्षते ॥ ७७३ ॥
व्यक्तं स्फुरति ते कापि पापादनुचिता मतिः ।
जानन्नपि न जानीषे येन मां भर्तृजीविताम् ॥ ७७४ ॥
श्रुत्वेति सीतावक्त्रेन्दोः कलङ्कमिव वाच्यताम् ।
भीतो बभूव सौमित्त्रिर्वज्रेणेव विदारितः ॥ ७७५ ॥
सोऽब्रवीत्प्राञ्जलिः सीतां मातस्त्वं दैवतं मम ।
न युक्तमुत्सहे वक्तुं वाग्बाणनिहतस्त्वया ॥ ७७६ ॥
दृढग्रहा अप्यबलाः पेशलाः कुटिलाशयाः ।
मित्त्रभ्रातृविभेदिन्यः सर्वथा कुटिलाः स्त्रियः ॥ ७७७ ॥
गुणा जनापवादान्ताः दुष्पुत्रान्ताः कुलस्त्रियः ।
स्त्रीभेदान्ताः सुहृत्स्नेहा दुर्नयान्ताश्च संपदः ॥ ७७८ ॥
मातस्त्वया दुरुक्तेऽस्मिन्साक्षिणो हि वनेचराः ।
व्रजामि राघवं द्रष्टुं पान्तु त्वां वनदेवताः ॥ ७७९ ॥
इत्युक्त्वा विमनास्तूर्णं परिम्लानाननः श्वसन् ।
जगाम रामपदवीं लक्ष्मणः क्ष्मां विलोकयन् ॥ ७८० ॥
इति लक्ष्मणप्रयाणम् ॥ २४ ॥
अत्रान्तरे दशग्रीवे प्रविष्टे काननं स्वयम् ।
भयाच्चकम्पिरे वृक्षाः प्रययौ न च मारुतः ॥ ७८१ ॥
त्वङ्गत्तुङ्गतरङ्गाग्रभङ्गिन्योऽपि शनैः शनैः।
तरङ्गिण्यो ययुर्भीत्या मूकसारसनूपुराः ॥ ७८२ ॥
ततः पिधाय विपुलं विग्रहं दशकंधरः ।
भिक्षुरूपोऽभवद्वृद्धः स्नायुशेषतनुः श्वसन् ॥ ७८३ ॥


१. 'भाविनः' क; शा०.