पृष्ठम्:रामायणमञ्जरी.pdf/१५१

पुटमेतत् सुपुष्टितम्
१४२
काव्यमाला ।


मुण्डः कमण्डलुच्छत्त्रदण्डाङ्कः श्रमकम्पितः ।
योगीव ध्यानलोलाक्षः सीतामन्तर्विचिन्तयन् ॥ ७८४ ॥
भुजङ्ग इव संछन्नः कुटिलस्तृणपल्लवैः ।
ददर्शाभ्येत्य वैदेहीं राहुः शशिकलामिव ॥ ७८५ ॥
आसीनां पर्णशालाग्रे पीतकौशीयकांशुकाम् ।
लतामिवानिलोदञ्चत्पुष्पकिञ्जल्कपिञ्जराम् ॥ ७८६ ॥
तामुत्फुल्लपलाशाक्षीं संवीक्ष्य नलिनाननाम् ।
जगाम कामस्य वशं वशीकृतजगत्त्रयः ॥ ७८७ ॥
लुलितां व्याजभीत्येव सकम्पविकलाक्षराम् ।
प्रत्यग्रमदनाकारो गद्गदां गिरमादधे ॥ ७८८ ॥
शृङ्गारशिक्षाकरिणी हरिणी हारिलोचना ।
का त्वं लावण्यनलिनी मलिनीकृतचन्द्रिका ॥ ७८९ ॥
इमौ ते कुरुतः कान्तिं करौ कमलकोमलौ ।
तारुण्यपारिजातस्य नवपल्लवविभ्रमम् ॥ ७९० ॥
इयं ते कान्तितटिनी हारफेनावली सिता ।
चक्रवाकयुगेनेव स्तनद्वन्द्वेन भूषिता ॥ ७९१ ॥
क्षयक्षीणस्य शशिनो दग्धस्य च मनोभुवः ।
धात्रा त्वं निर्मिता सुभ्रु कच्चित्संजीवनौषधिः ॥ ७९२ ॥
रक्ताधरदलं नेत्रभ्रमरं स्मितकेसरम् ।
इदं ते भाति कान्तिश्रीनिवासकमलं मुखम् ॥ ७९३ ॥
नेदमप्सरसां रूपं गन्धर्वीणां कथैव का ।
दूरे विद्याधरस्त्रीणां कासि कस्य कुतोऽथ वा ॥ ७९४ ॥
अस्मिन् घोतरव्यालरक्षःपक्षिगणे वने ।
कथमेकैव वससि स्रस्तेवेन्दुद्युतिर्दिवः ॥ ७९५ ॥
गेहे त्रैलोक्यजयिनामिदमर्हति ते वपुः ।
उत्तुङ्गरत्नहर्म्याग्रशृङ्गोत्तुङ्गावतंसकम् ॥ ७९६ ॥